SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1306 // परमाण्वा सूत्रसिद्धा एव, पञ्चसुवर्णेषु पञ्च चतुष्कसंयोगा भवन्ति, तेषु चैषां प्रत्येकं भावात्पञ्चविंशतिरिति, यालं भंगसयंति पञ्चप्रदेशिके 20 शतके एकद्वित्रिचतुष्पञ्चवर्णसंयोगजानां पञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसङ्ख्यानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिक उद्देशक:५ सूत्रम् 668 भकशतं भवतीति॥५॥ छप्पएसिए ण मित्यादि, इह सर्वपञ्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टौ भङ्गावाच्याः, अष्टमस्याप्यत्र सम्भवात्, एवं च दशसु त्रिकसंयोगेष्वशीतिर्भङ्गका भवन्तीति, चतुर्वर्णे तु पूर्वोक्तानां षोडशानां भङ्गकानामष्टदशान्ति दिवर्णादिः मत्रयवर्जितानां शेषा एकादश भवन्ति, तेषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चपञ्चाशदिति / जइ पंचवन्ने इत्यादी षड्भङ्गाः, छासीयं भंगसयंति एकादिसंयोगसम्भवानांपञ्चचत्वारिंशदशीतिपञ्चाधिकपञ्चाशत्षट्सङ्ख्यभङ्गकानांमीलनात् षडुत्तराशीत्यधिकं भङ्गकशतं भवति // 6 // सत्तपएसिय इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्तानां षोडशानामन्तिमवर्जाः शेषा : पञ्चदश भवन्ति, एषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चसप्ततिरिति / जइ पंचवन्ने इत्यादि, इह पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तेषु चेहाद्यानां षोडशानामष्टमद्वादशान्त्यत्रयवर्जिताः शेषा उत्तरेषांच षोडशानामाद्यास्त्रयः पञ्चमनवमी चेत्येवं सर्वेऽपि षोडश संभवन्तीति, दोसोला भंगसयं त्ति एकद्वित्रिचतुष्पञ्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिक-2 सप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनाद् द्वे शते षोडशोत्तरे स्यातामिति // 7 // अट्ठपएसिए इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्ताः षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येकं पञ्चसु चतुष्कसंयोगेषु भावादशीतिर्भडका भवन्ति, पञ्चवर्णत्वे तु द्वात्रिंशतो भङ्गानां षोडशचतुर्विशाष्टाविंशाष्टाविंशान्त्यत्रयवर्जाः शेषाः षशितिर्भङ्गका भवन्तीत्यर्थः, दो इक्कतीसाई ति 8 // 1306 // पूर्वोक्तानां पञ्चचत्वारिंशदशीत्यशीतिषडुत्तरविंशतिसङ्खयानां भङ्गकानां मीलनावे शते एकत्रिंशतदुत्तरे भवत इति // 8 // नवपएसियस्से त्यादि, इह पञ्चवर्णत्वे द्वात्रिंशतो भङ्गकानामन्त्य एव न भवति शेषं तु पूर्वोक्तानुसारेण भावनीयमिति // 9 // //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy