________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1271 // 19 शतके उद्देशकः३ सूत्रम् 650 पृथ्व्यादिशरीरादि परिणामाश्चातः प्रत्येकं शरीरंबध्नन्तीति तत्प्रायोग्यपुद्गलग्रहणतः, ततश्चाहारयन्तीत्याद्येतच्च प्राग्वदिति // 1 // किमाहार-द्वारे एवं जहा पन्नवणाए पढमे आहारुद्देसए त्ति एवं यथा प्रज्ञापनायामष्टाविंशतितमपदस्य प्रथमे आहाराभिधायकोद्देशके सूत्रं तथेह वाच्यम्, तच्चैवं 'खेत्तओ असंखेजपएसोगाढाई कालतो अन्नयरकालट्ठितीयाई भावओ वन्नमंताई गंधमंताई रसमंताई फासमंताई'मित्यादीति // 7 // तं चिज्जइ त्ति तत् पुद्गलजातं शरीरेन्द्रियतया परिणमतीत्यर्थः चिन्ने वा से उद्दाइ त्ति चीर्ण चाहारितं सत्तत् पुद्गलजातं अपद्रवति अपयाति विनश्यतीति मलवत् सारश्चास्य शरीरेन्द्रियतया परिणमति, एतदेवाह पलिसप्पइ वत्ति परिसर्पति च परि समन्ताद्गच्छति // 8 // एवं सन्नाइ व त्ति एवं' वक्ष्यमाणोल्लेखेन सज्ञा' व्यावहारिकार्थाव-ग्रहरूपा मतिः प्रवर्तत इति शेषः, पन्नाइ व त्ति प्रज्ञा सूक्ष्मार्थविषया मतिरेव, मणोइ व त्ति मनोद्रव्यस्वभावम्, वईइ व त्ति वाग्ल द्रव्यश्रुतरूपा // 9 // प्राणातिपातादिद्वारे पाणाइवाए उवक्खाइज्जती त्यादि प्राणातिपाते स्थिता इति शेषः, प्राणातिपातवृत्तय इत्यर्थः,उपाख्यायन्तेऽभिधीयन्ते, यश्चेह वचनाद्यभावेऽपि पृथिवीकायिकानां मृषावादादिभिरुपाख्यानं तन्मृषावादाद्यविरतिमाश्रित्योच्यत इति, अथ हन्तव्यादिजीवानां का वार्ता? इत्याह जेसिपि ण मित्यादि,येषामपि जीवानामतिपातादि-N विषयभूतानां प्रस्तावात्पृथिवीकायिकानामेव सम्बन्धिनाऽतिपातादिना ते जीव त्ति तेऽतिपातादिकारिणोजीवाः एवमाहिजंति त्ति अतिपातादिकारिण एत इत्याख्यायन्ते, तेषामपि जीवानामतिपातादिविषयभूतानां न केवलं घातकानां नो नैव विज्ञातं अवगतं नानात्वं भेदो यदुत वयं वध्यादय एते तु वधकादय इत्यमनस्कत्वात्तेषामिति // 11 // उत्पादद्वारे एवं जहा वक्कंतीए इत्यादि, इह च व्युत्क्रान्तिः प्रज्ञापनायाः पष्ठं पदम्, अनेन च यत्सूचितं तदिदं 'किं नेरइएहिंतो उववखंति तिरिक्खजोणिएहितो उव० मणुस्सेहिंतो उव. देवेहिंतो उव.?, गोयमा! नो नेरइएहिंतो उव० तिरिक्खजोणिएहिंतो उव. मणुस्सेहिंतो उव० देवेहितो // 1271 //