________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1264 // 18 शतके उद्देशक:१० सूत्रम् 646 सोमिलस्य यात्रादिसर्ष पादिप्रश्न: धन्नमासा ते दुविहा पतं० सत्थपरिणया० य असत्थप० य एवं जहा धन्नसरिसवा जाव से तेणटेणं जाव अभ०वि / 17 कुलत्था ते भंते! किं भक्खेया अभक्खेया?, सोमिला! कुलत्था भक्खेयावि अभ०वि, से केणटेणं जाव अभ०वि?, से नूणं सोमिला! ते बंभन्नएसु नएसु दुविहा कुलत्था प० तं० इत्थिकुलत्था य धन्नकुलत्था य, तत्थ णं जे ते इत्थिकुलत्था ते तिविहा पं०, तंजहाकुलकन्नयाइवा कुलवहूयाति वा कुलमाउयाइवा, तेणं सम० निग्गं० अभक्खेया, तत्थ णं जे ते धन्नकुलत्था एवं जहा धन्नसरिसवा से तेणटेणं जाव अभक्खेयावि।सूत्रम् 646 // तेण मित्यादि, इमाइं च णं ति इमानि च वक्ष्यमाणानि यात्रायापनीयादीनि जत्त त्ति यानं यात्रा संयमयोगेषु प्रवृत्तिः जवणिज्जं ति यापनीयं मोक्षाध्वनि गच्छतां प्रयोजक इन्द्रियादिवश्यतारूपो धर्मः अव्वाबाहं ति शरीरबाधानामभावः फासुयविहारं ति प्रासुकविहारो निर्जीव आश्रय इति, तवनियमसंजमसज्झायझाणावस्सयमाइएसु त्ति इह तपोऽनशनादि नियमास्तद्विषया अभिग्रहविशेषाः, यथा एतावत्तपः स्वाध्यायवैयावृत्त्यादि मयाऽवश्यं रात्रिन्दिवादौ विधेयमित्यादिरूपाः, संयमः प्रत्युपेक्षादिः, स्वाध्यायो धर्मकथादि, ध्यानं धादिः, आवश्यकं षड्विधम्, एतेषु च यद्यपि भगवतः किञ्चिन्न / तदानीं विशेषतः संभवति तथाऽपि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यम्, जयण त्ति प्रवृत्तिः इंदियजवणिज्जं ति इन्द्रियविषयं यापनीयं वश्यत्वमिन्द्रिययापनीयम्, एवं नोइन्द्रिययापनीयम्, नवरं नोशब्दस्य मिश्रवचनत्वादिन्द्रियैर्मिश्राः सहार्थत्वाद्वा इन्द्रियाणांसहचरितानोइन्द्रियाः कषायाः, एषांचयात्रादिपदानांसामयिकगम्भीरार्थत्वेन भगवतस्तदर्थपरिज्ञानमसम्भावयता तेनापभ्राजनार्थं प्रश्नः कृत इति // सरिसव त्ति एकत्र प्राकृतशैल्या सदृशवयसः समानवयसः, अन्यत्र सर्षपाः सिद्धार्थकाः, दव्वमास त्ति द्रव्यरूपा माषाः कालमास त्ति कालरूपा मासाः, कुलत्थ त्ति एकत्र कुले तिष्ठन्तीति कुलस्थाः कुलाङ्गनाः,