________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1253 // वाससहस्सेहिं खवयंति, एएणडेणं गो० ते देवा जाव पंचहिवाससयसहस्सेहिं खवयंति / सेवं भंते!॥सूत्रम् 638 // 18-7 // तेण मित्यादि, एवं जहा सत्तमसए इत्यादिना यत्सूचितं तस्यार्थतो लेशो दर्श्यते- कालोदायिसेलोदायिसेवालोदायिप्रभृतिकानामन्ययूथिकानामेकत्र संहितानां मिथः कथासंलापः समुत्पन्नो यदुत महावीरः पञ्चास्तिकायान् धर्मास्तिकायादीन् प्रज्ञापयति, तत्र च धर्माधर्माकाशपुद्गलास्तिकायानचेतनान् जीवास्तिकायंच सचेतनंतथा धर्माधर्माकाशजीवास्तिकायानरूपिणः पुद्गलास्तिकायं च रूपिणं प्रज्ञापयतीति से कहमेयं मन्ने एवं ति अथ कथमेतद्धर्मास्तिकायादि वस्तु मन्य इति वितर्कार्थः एवं सचेतनाचेतनादिरूपेण अदृश्यमानत्वेनासम्भवात्तस्येति हृदयम्, अविउप्पकडे त्ति अपिशब्दः संभावनार्थः, उत् प्राबल्येन च प्रकृता प्रस्तुता प्रकटा वा, उत्प्रकृतोत्प्रकृटा वा, अथवा अविद्वद्धिरजानद्भिः प्रकृता कृता प्रस्तुता वा अविद्वत्प्रकृता जइ कजं कज्जइ जाणामो पासामो त्ति यदि तैर्धर्मास्तिकायादिभिः कार्य स्वकीयं क्रियते तदा तेन कार्येण तान् जानीमः पश्यामश्चावगच्छाम इत्यर्थः, धूमेनाग्निमिव ,अथ कार्यं तैर्न क्रियते तदा न जानीमो न पश्यामश्च, अयमभिप्राय:कार्यादिलिङ्गद्वारेणैवार्वाग्दृशामतीन्द्रियपदार्थावगमो भवति, न च धर्मास्तिकायादीनामस्मत्प्रतीतं किञ्चित् कार्यादिलिङ्गं दृश्यत इति तदभावात्तन्न जानीम एव वयमिति // 14 // अथ मद्रुकं धर्मास्तिकायाद्यपरिज्ञानाभ्युपगमवन्तमुपालम्भयितुं / यत्ते प्राहुस्तदाह केसण मित्यादि, क एष त्वं मद्दुक! श्रमणोपासकानांमध्ये भवसि यस्त्वमेतमर्थं श्रमणोपासकज्ञेयं धर्मास्तिकायाद्यस्तित्वलक्षणं न जानासि न पश्यसि?, न कश्चिदित्यर्थः / अथैवमुपालब्धः सन्नसौ यत्तैरदृश्यमानत्वेन धर्मास्तिकायाद्यसम्भव इत्युक्तं तद्विघटनेन तान् प्रतिहन्तुमिदमाह अत्थि ण मित्यादि, घाणसहगय तिघ्रायत इति घ्राणो गन्धगुणस्तेन सहगता:- तत्सहचरितास्तद्वन्तो घ्राणसहगताः अरणिसहगए ति अरणिरग्न्यर्थं निर्मन्थनीयकाष्ठं तेन सह गतो यः स तथा तम्। 18 शतके उद्देशक: 7 सूत्रम् 634 महुकश्रावकवृत्त सूत्रम् 635 वैक्रियेण संग्रामः सूत्रम् 636-638 देवासुररण: तेषांपर्यटनं कर्मांश क्षयकालः // 1253 //