SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यई श्रीअभय वृत्तियुतम् भाग-२ // 618 // 8 शतके | उद्देशक:५ आजीविकाधिकारः। सूत्रम् 329 अतीता नागत प्रत्याख्यान व्यवहार्यत्वात् ॥से केणं ति, अथ केन खाइणं ति पुन रतुणं ति, अर्थेन हेतुनैवं भवइ त्ति, एवंभूतो मनः परिणामो भवति नो मे हिरने त्यादि, हिरण्यादिपरिग्रहस्य द्विविधं त्रिविधेन प्रत्याख्यातत्वात्, उक्तानुक्तार्थानुसङ्ग्रहेणाह नो मयित्यादिधनंगणिमादि गवादि वा, कनकं प्रतीतम्, रत्नानि कर्केतनादीनि, मणयश्चन्द्रकान्तादयः, मौक्तिकानि शङ्खाश्च प्रतीताः, शिलाप्रवालानि विद्रुमाणि, अथवा शिला मुक्ताशिलाद्याः, प्रवालानि विद्रुमाणि, रक्तरत्नानि पद्मरागादीनि तत एषां द्वन्द्वस्ततो विपुलानि धनादीन्यादिर्यस्य स तत्तथा, संत त्ति विद्यमानं सार त्ति प्रधानं सावएजत्ति स्वापतेयं द्रव्यम्, एतस्य च पदत्रयस्य कर्मधारयः, अथ यदि तद्धाण्डमभाण्डं भवति तदा कथं स्वकीयं तद् गवेषयति? इत्याशङ्कयाह ममत्ते त्यादि, परिग्रहादिविषये मनोवाक्कायानांकरणकारणे तेन प्रत्याख्याते, ममत्वभावः पुनर्हिरण्यादिविषये ममतापरिणामः, पुनरपरिज्ञातोऽप्रत्याख्यातो भवति, अनुमतेरप्रत्याख्यातत्वात्, ममत्वभावस्य चानुमतिरूपत्वादिति // 3 केइ जायं चरेज त्ति कश्चिदुपपतिरित्यर्थः, जायां भार्यां चरेत् सेवेत्, ४सुण्ह त्ति स्नुषापुत्रभार्या, पेज्जबंधणे त्ति प्रेमैव प्रीतिरेव बन्धनं प्रेमबन्धनं तत्पुनः से तस्य श्राद्धस्याव्यवच्छिन्नं भवति, अनुमतेरप्रत्याख्यातत्वात् प्रेमानुबन्धस्य चानुमतिरूपत्वादिति // 328 // ५समणोवासगस्स णं भंते! पुव्वामेव थूलए पाणाइवाए अपच्चक्खाए भवइ से णं भंते! पच्छा पच्चाइक्खमाणे किं करोति?, गोयमा! तीयं पडिक्कमइ पडुप्पन्नं संवरेइ अणागयं पञ्चक्खाति ॥६तीयं पडिक्कममाणे किं तिविहं तिविहेणं पडिक्कमति 1 तिविहं दुविहेणं पडि० 2 तिविहं एगविहेणं पडि०३ दुविहं तिविहेणं पडि० 4 दुविहं दुविहेणं पडि०५ दुविहं एगविहेणं पडि०६ एक्कविहं तिविहेणं पडि०७ एक्कविहं दुविहेणं पडि० 8 एक्कविहं एगविहेणं पडि०९, गोयमा! ति तिविहेणं पडि तिविहंदुविहेण वा पडि० तंचेव जाव एक्कविहं वा एक्कविहेणं पडि०, ति० वा तिविहेणं पडिक्कममाणे न करेति न कारवेति करेंतं णाणुजाणइ मणसा वयसा // 618
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy