________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1081 // तुल्यता उदइए भावे त्ति, उदयः कर्मणां विपाकः स एवौदयिकः क्रियामात्रम्, अथवोदयेन निष्पन्न औदयिको भावो नारकत्वादि- 14 शतके पर्यायविशेषः, औदयिकस्य भावस्य नारकत्वादेर्भावतोभावसामान्यमाश्रित्य तुल्यः समः, एवं उवसमिए त्ति, औपशमिको उद्देशकः७ संश्लिष्टशब्दोऽप्येवं वाच्यः, तथाहि, उवसमिए भावे उवसमियस्स भावस्स भावओ तुल्ले उवसमिए भावे उवसमियवइरित्तस्स भा० भावओ नो तुल्ले पलक्षितात्ति,एवं शेषेष्वपि वाच्यम्, तत्रोपशम उदीर्णस्य कर्मणः क्षयोऽनुदीर्णस्य विष्कम्भितोदयत्वंस एवौपशमिकः क्रियामात्रम्, धिकारः। सूत्रम् 523 उपशमन वा निवृत्त औपशमिकः सम्यग्दर्शनादि, खइए त्ति क्षयः कर्माभावः स एव क्षायिकः, क्षयेण वा निर्वृत्तः क्षायिकः द्रव्यक्षेत्रकेवलज्ञानादिः, खओवसमिए त्ति क्षयेणोदयप्राप्तकर्मणो विनाशेन सहोपशमो विष्कम्भितोदयत्वं क्षयोपशमः स एव कालभव भावक्षायोपशमिकः क्रियामात्रमेव, क्षयोपशमेन वा निवृत्तः क्षायोपशमिको मतिज्ञानादिपर्यायविशेषः, नन्वौपशमिकस्य संस्थानक्षायोपशमिकस्य च कः प्रतिविशेषः, उभयत्राप्युदीर्णस्य क्षयस्यानुदीर्णस्य चोपशमस्य भावा?, उच्यते, क्षायोपशमिके विपाकवेदनमेव नास्ति प्रदेशवेदनं पुनरस्त्येव, औपशमिकेतु प्रदेशवेदनमपि नास्तीति, पारिणामिए त्ति परिणमनं परिणामः स एव पारिणामिकः, सन्निवाइए त्ति सन्निपात औदयिकादिभावानां व्यादिसंयोगस्तेन निर्वृत्तः सान्निपातिकः। 9 संठाणतुल्लए त्ति संस्थानमाकृतिविशेषः,तच्च द्वेधा जीवाजीवभेदात्, तत्राजीवसंस्थानं पञ्चधा, तत्र परिमंडले संठाणे त्ति परिमण्डलसंस्थानं बहिस्ताद्वृत्ताकारं मध्ये शुषिरं यथा वलयस्य, तच्च द्वेधा, घनप्रतरभेदात्, वट्टे त्ति वृत्तं परिमण्डलमेवान्तःशुषिररहितं यथा / कुलालचक्रस्य, इदमपि द्वेधा घनप्रतरभेदात्, पुनरेकैकं द्विधा, समसङ्खयविषमसङ्खयप्रदेशभेदात्, एवं त्र्यनं चतुरस्रं च, नवरं त्र्यनं त्रिकोणं शृङ्गाटकस्येव चतुरस्रं तु चतुष्कोणं यथा कुम्भिकायाः, आयतदीर्घ यथा दण्डस्य, तच्च त्रेधा, श्रेण्यायतप्रतरायतघनायतभेदात्, पुनरेकैकं द्विधा समसङ्ख्यविषमसङ्ग्यप्रदेशभेदात्, इदंच पञ्चविधमपि विश्रसाप्रयोगाभ्यां प्रश्नाः / // 1081 //