SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1006 // 13 शतके उद्देशकः२ देवाधिकारः। सूत्रम् 473 चतुर्निकायदेवभेदप्रभेद प्रत्येकानामावासैकसमये उत्पादोद्वर्तना 7 सुक्काइविमाणवासीणं // 1 // इति, इह च सर्वेष्वपि शुक्रादिदेवस्थानेषु परमशुक्लेति // 11 आनतादिसूत्रे संखेज्जवित्थडेस्वि त्यादि, उत्पादेऽवस्थाने च्यवने च सङ्ख्यातविस्तृतत्वाद्विमानानां सङ्ख्याता एव भवन्तीति भावः, असङ्ख्यातविस्तृतेषु पुनरुत्पादच्यवनयोः सङ्ख्याता एव, यतो गर्भजमनुष्येभ्य एवानतादिषूत्पद्यन्ते ते च सङ्ख्याता एव, तथाऽऽनतादिभ्यश्च्युता गर्भजमनुष्येष्वेवोत्पद्यन्तेऽतः समयेन सङ्ख्यातानामेवोत्पादच्यवनसम्भवः, अवस्थितिस्त्वसङ्ख्यातानामपि स्यादसङ्ख्यातजीवितत्वेनैकदैव जीवितकालेऽसङ्ख्यातानामुत्पादादिति / पन्नत्तेसु असंखेज्जा नवरं नोइंदिओवउत्ते त्यादि प्रज्ञप्तकगमेऽसङ्ख्येया वाच्याः केवलं नोइन्द्रियोपयुक्तादिषु पञ्चसु पदेषु सङ्ख्याता एव, तेषामुत्पादावसर एव भावाद्, उत्पत्तिश्चसङ्ख्यातानामेवेति दर्शितं प्रागिति, १३पंचअणुत्तरोववाइयत्ति तत्र मध्यमं सङ्ख्यातविस्तृतं योजनलक्षप्रमाणत्वादिति। नवरं कण्हपक्खिए त्यादि, इह सम्यग्दृष्टीनामेवोत्पादात् कृष्णपाक्षिकादिपदानां गमत्रयेऽपि निषेधः, अचरिमावि खोडिज्जंति त्ति येषां चरमोऽनुत्तरदेवभवः स एव ते चरमास्तदितरे त्वचरमास्ते च निषेधनीयाः, यतश्चरमा एव मध्यमे विमान उत्पद्यन्त इति / असंखेज्जवित्थडेसुवि एए न भन्नंति त्ति, इहैते कृष्णपाक्षिकादयः, नवरं अचरिमा अत्थि त्ति यतो बाह्यविमानेषु पुनरुत्पद्यन्त इति। 14 तिन्नि आलावग त्ति सम्यग्दृष्टिमिथ्यादृष्टिसम्यग्मिथ्यादृष्टिविषया इति / नवरं तिसुवि आलावगेस्वि त्यादि, उप्पत्तीए चवणे पन्नत्तालावए य मिथ्यादृष्टिः सम्यग्मिथ्यादृष्टिश्च न वाच्यः, अनुत्तरसुरेषु तस्यासम्भवादिति // 473 // त्रयोदशशते द्वितीयः॥१३-२॥ सम्यग्दृष्ट्यादीनामुत्पादलेश्यावान्भूत्वादि प्रश्नाः / // 1006 // 7 शुक्रादिविमानवासिनां (लेश्या) // 1 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy