SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ उद्देशक:४ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-२ // 950 // तस्य ति, अभि, अभिविधिना निविष्टानि सर्वाण्यपि जीवे लग्नानीत्यर्थः, अभिसमन्नागयाई ति, अभिविधिना सर्वाणीत्यर्थः 12 शतके समन्वागतानि सम्प्राप्तानि जीवेन रसानुभूतिसमाश्रित्य, परियाइयाइंति पर्याप्तानि जीवेन सर्वावयवैरात्तानि तद्रसादानद्वारेण, पुद्रलापरिणामियाई ति रसानुभूतित एव परिणामान्तरमापादितानि, निज्जिण्णाई ति क्षीणरसीकृतानि, निसिरियाई ति जीवप्रदेशेभ्यो धिकारः। निःसृतानि, कथं? निसिट्ठाई ति जीवेन निःसृष्टानि स्वप्रदेशेभ्यस्त्याजितानि, इहाद्यानि चत्वारि पदान्यौदारिकपुद्गलानां सूत्रम् 447 औदा०आदि ग्रहणविषयाणि तदुत्तराणि तु पञ्च स्थितिविषयाणि तदुत्तराणि तु चत्वारि विगमविषयाणीति // 29 अथ पुद्गलपरावर्तानां पु०परा० निर्वर्तनकालंतदल्पबहुत्वंच दर्शयन्नाह, ओरालिये त्यादि, केवइकालस्स त्ति कियता कालेन निर्वय॑ते?,अणंताहिं उस्सप्पिणि इति-नामहेतु ओसप्पिणीहिं ति, एकस्य जीवस्य ग्राहकत्वात् पुद्गलानां चानन्तत्वात् पूर्वगृहीतानां च ग्रहणस्यागण्यमानत्वादनन्ता निष्पत्ति कालाल्पअवसर्पिण्य इत्यादि सुष्ठूक्तमिति / 30 सव्वत्थोवे कम्मगपोग्गले त्यादि, सर्वस्तोकः कार्मणपुद्गलपरिवर्त्तनिर्वर्तनाकालः, ते बहुत्वादिहि सूक्ष्मा बहुतमपरमाणुनिष्पन्नाश्च भवन्ति, ततस्ते सकृदपि बहवो गृह्यन्ते, सर्वेषु च नारकादिपदेषु वर्त्तमानस्य जीवस्य। प्रश्नाः / तेऽनुसमयं ग्रहणमायान्तीति स्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति, ततस्तैजसपुद्गलपरिवर्त्तनिर्वर्त्तनाकालोऽनन्तगुणो यतः स्थूलत्वेन तैजसपुद्गलानामल्पानामेकदा ग्रहणम्, एकग्रहणे चाल्पप्रदेशनिष्पन्नत्वेन तेषामल्पानामेव तदणूनां ग्रहणं भवत्यतोऽनन्तगुणोऽसाविति, तत औदारिकपुद्गलपरिवर्त्तनिवर्त्तनाकालोऽनन्तगुणो, यत औदारिकपुद्गला अतिस्थूराः, स्थूराणां चाल्पानामेवैकदा ग्रहणं भवत्यल्पतर प्रदेशाश्च ते ततस्तद्वहणेऽप्येकदाऽल्पा एवाणवो गृह्यन्ते, नच कार्मणतैजसपुद्गलवत्तेषां सर्वपदेषु ग्रहणमस्ति, औदारिकशरीरिणामेव तद्हणाद्, अतो बृहतैव कालेन तेषां ग्रहणमिति, तत आनप्राणपुद्गलपरिवर्त्तनाकालोऽनन्तगुणः, यद्यपि ह्यौदारिकपुद्गलेभ्य आनप्राणपुद्गलाः सूक्ष्मा बहुप्रदेशिकाश्चेति तेषामल्पकालेन ग्रहणं संभवति // 950 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy