________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 948 // एगमेगस्से त्यादि, अतीतानन्ता अनादित्वात्, अतीतकालस्य जीवस्य चानादित्वादपरापरपुद्गलग्रहणस्वरूपत्वाच्चेति / पुरक्खडे 12 शतके ति पुरस्कृता भविष्यन्तः, कस्सइ अत्थि कस्सइ नत्थि त्ति कस्यापि जीवस्य दूरभव्यस्याभव्यस्य वा ते सन्ति, कस्यापि न / उद्देशकः 4 पुद्रलासन्ति, उद्धृत्य यो मानुषत्वमासाद्य सिद्धिं यास्यति सङ्खयेयैरसमयेयैर्वा भवैर्यास्यति यःसिद्धिं तस्यापि परिवर्तो नास्ति, धिकारः। अनन्तकालपूर्यत्वात्तस्येति / 19 एगत्तिय त्ति, एकत्विका एकनारकाद्याश्रयाः, सत्त त्ति, औदारिकादिसप्तविधपुद्गलविषय सूत्रम् 446 परमाणुनां त्वात्सप्तदण्डकाश्चतुर्विंशतिदण्डका भवन्ति, एकत्वपृथक्त्वदण्डकानांचायं विशेषः, एकत्वदण्डकेषु पुरस्कृतपुद्गलपरावर्ताः संयोगभेदेन पुद्गलपरावर्त्तः कस्यापि न सन्त्यपि, बहुत्वदण्डकेषु तु ते सन्ति, जीवसामान्याश्रयणादिति // 20 एगमेगस्से त्यादि, नत्थि एक्कोवि त्ति तत्प्रकारनारकत्वे वर्तमानस्यौदारिकपुद्गलग्रहणाभावादिति // 21 एगमेगस्सणं भंते ! नेरइयस्स असुरकुमारत्त इत्यादि, इह च नैरयिकस्य श्वादिप्रश्नाः। नै०असु० वर्तमानकालीनस्यासुरकुमारत्वे चातीतानागतकालसम्बन्धिनि, 24 एगुत्तरिया जाव अणंता व त्ति, अनेनेदं सूचितं कस्सइ आदीनामेकैअत्थि कस्सइ नत्थि, जस्सत्थि तस्स जहन्नेणं एक्को वा दोन्नि वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वे ति, 25 एवं कनै०अ० आदीनाच जत्थ वेउब्वियसरीरं तत्थ एकोत्तरिओ त्ति यत्र वायुकाये मनुष्यपञ्चेन्द्रियतिर्यक्षु व्यन्तरादिषु च वैक्रियशरीरं तत्रैको वेत्यादिऔदाव० वाच्यमित्यर्थः, जत्थ नत्थी त्यादि यत्राप्कायादौ नास्ति वैक्रियं तत्र यथा पृथिवीकायिकत्वे तथा वाच्यम्, न सन्ति वैक्रिय आदि पु०परा० पुद्गलपरावर्ता इति वाच्यमित्यर्थः, तेयापोग्गले त्यादि तैजसकार्मणपुद्गलपरावर्ता भविष्यन्त एकादयः सर्वेषु नारकादिजीव- आदिप्रश्नाः। पदेषु पूर्ववद्वाच्यास्तैजसकार्मणयोः सर्वेषु भावादिति / मणपोग्गले त्यादि, मनः पुद्गलपरावर्ताः पञ्चेन्द्रियेष्येव सन्ति, भविष्यन्तश्च त एकोत्तरिकाः पूर्ववद्वाच्याः, विगलिंदिएसुनत्थि त्ति विकलेन्द्रियग्रहणेन चैकेन्द्रिया अपि ग्राह्याः तेषामपीन्द्रियाणामसम्पूर्णत्वान्मनोवृत्तेश्चाभावाद्, अतस्तेष्वपि मनःपुद्गलपरावर्तान सन्ति / वइपोग्गलपरियट्टा एवं चेव त्ति तैजसादिपरिवर्त // 948 //