SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 927 // 12 शतके उद्देशकः१ शङ्काधिकारः। साहगाथा। सूत्रम् 437. श्रावस्तीनगरी शकश्रमणोंपासक उत्पलास्त्री प्रभोरुपासना प्रश्नादि सूत्रम् 438 नवमः 9 / आय त्ति, आत्मभेदनिरूपणार्थो दशम 10 इति // 1 // 2 तत्र प्रथमोद्देशके किञ्चिल्लिख्यते, आसाएमाण त्ति, ईषत्स्वादयन्तो बहु च त्यजन्त इक्षुखण्डादेरिव, विस्साएमाण त्ति विशेषेण स्वादयन्तोऽल्पमेव त्यजन्तः खजूरादेरिव, परिभाएमाण त्ति ददतः, परिभुंजेमाण त्ति सर्वमुपभुञ्जानाऽल्पमप्यपरित्यजन्तः, एतेषांच पदानां वार्त्तमानिकप्रत्ययान्तत्वेऽप्यतीतप्रत्ययान्तता द्रष्टव्या, ततश्च तद्विपुलमशनाद्यास्वादितवन्तः सन्तः, पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो त्ति पक्षेऽर्द्धमासि भवं पाक्षिकं पौषधमव्यापारपौषधं प्रतिजाग्रतोऽनुपालयन्तः, विहरिष्यामः स्थास्यामः, यच्चेहातीत कालीनप्रत्ययान्तत्वेऽपिवार्तमानिकप्रत्ययोपादानंतद्भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थम्, एवमुत्तरत्रापि गमनिका कार्येत्येके, अन्ये तु व्याचक्षते, इह किल पौषधं पर्वदिनानुष्ठानं तच्च द्वेधा, इष्टजनभोजनदानादिरूपमाहारादिपौषधरूपंच, तत्र शङ्खइष्टजनभोजनदानरूपंपौषधं कर्तुकामःसन् यदुक्तवांस्तद्दर्शयतेदमुक्तं तए णं अम्हे तं विउलं असणपाणखाइमसाइमं अस्साएमाणे त्यादि, पुनश्च शङ्क एव संवेगविशेषवशादाद्यपौषधविनिवृत्तमनाः द्वितीयपौषधं चिकीर्षुर्यच्चिन्तितवांस्तदर्शयतेदमुक्तम्, नोखलु मे सेयंत मित्यादि, एगस्स अबिइयस्स त्ति, एकस्य बाह्यसहायापेक्षया केवलस्या द्वितीयस्य तथाविधक्रोधादिसहायापेक्षया केवलस्यैव, न चैकस्येति भणनादेकाकिन एव पौषधशालायां पौषधं कत्तुं कल्पत इत्यवधारणीयम्, एतस्य चरितानुवादरूपत्वात्तथा ग्रन्थान्तरे बहूनां श्रावकाणां पौषधशालायां मिलनश्रवणाद्दोषाभावात्परस्परेण स्मारणादिविशिष्टगुणसम्भवाच्चेति ।६गमणागमणाए पडिक्कमइत्ति, ईर्यापथिकी प्रतिक्राम-8 तीत्यर्थः, 7 छंदेणं ति स्वाभिप्रायेण न तु मदीयाज्ञयेति / 9 पुव्वरत्तावरत्तकालसमयंसि त्ति पूर्वरात्रश्च रात्रेः पूर्वो भागः, अपगता रात्रिरपररात्रः स च पूर्वरात्रापररात्रस्तल्लक्षणः कालसमयो यः स तथा तत्र धम्मजागरियं ति धर्माय धर्मचिन्तया वा जागरिका शकपुष्कल्यादि श्रमणा पासकानामाहारेणसह पौषध संबंधी वातोलाप: प्रभुपृच्छा शङ्ककथनसत्यतादि। // 927 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy