SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 914 // 11 शतके उद्देशकः 11 कालाधिकारः। सूत्रम् 430 महाबलपाणिग्रहणविस्तृतप्रीतिदानादि। संतसारसावएजं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं प० भोत्तुं प० परिभाएउं / तए णं से महब्बले कुमारे एगमेगाए भज्जाए एगमेगं हिरन्नकोडिं दलयति एगमेगं सुवन्नकोडिं दलयति एगमेगं मउडं मउडप्पवरं दलयति एवं तं चेव सव्वं जाव एगमेगं पेसणकारिंदलयति अन्नं वा सुबहुं हिरन्नं वा जाव परिभाएउं, तए णं से महब्बले कुमारे उप्पिंपासायवरगए जहा जमाली (भ.श०९ उ०३३) जाव विहरति // सूत्रम् 430 // 31 पमक्खणग-हाण-गीय-वाइय-पसाहण-टुंगतिलग-कंकण-अविहववहुउवणीयं ति प्रम्रक्षणकमभ्यञ्जनम्, स्नानगीतवादितानि प्रतीतानि, प्रसाधनं मण्डनमष्टस्वङ्गेषु, तिलकाः पुण्ड्राण्यष्टाङ्गतिलकाः, कङ्कणं च रक्तदवरकरूपम्, एतान्यविधववधूभिर्जीवत्पतिकनारीभिरुपनीतानि यस्य स तथा तम्, मंगल-सुजंपिएहि यत्ति मङ्गलानि दध्यक्षतादीनि गीतगानविशेषा वा तासु जल्पितानि चाशीर्वचनानीति द्वन्द्वस्तैः करणभूतैः, पाणिं गिण्हाविंसु त्ति सम्बन्धः, किं भूतं तम्? इत्याह वरकोउय मङ्गलो वयार कय संतिकम्मं वराणि यानि कौतुकानि भूतिरक्षादीनि मङ्गलानि च सिद्धार्थकादीनि तद्रुपो य उपचारः पूजा तेन कृतं शान्तिकर्म दुरितोपशमक्रिया यस्य स तथा तम्, सरिसियाणं ति सदृशीनां परस्परतो महाबलापेक्षया वा, सरित्तयाणं ति सदृक्त्वचां सदृशच्छवीनाम्, सरिव्वयाणं ति सदृग्वयसाम्, सरिसलावन्ने त्यादि, इह च लावण्यं मनोज्ञता, रूपमाकृतिः,यौवनं युवता, गुणाः प्रियभाषित्वादयः, 32 कुण्डलजोए त्ति कुण्डलयुगानि, कडगजोए त्ति कलाचिकाभरणयुगानि, तुडिय त्ति बाह्वाभरणम्, खोमे त्ति कार्पासिकमतसीमयं वा वस्त्रम्, वडग त्ति त्रसरीमयम्, पट्ट त्ति पट्टसूत्रमयम्, दुगुल्ल त्ति दुकूलाभिधानवृक्षत्वनिष्पन्नं श्रीप्रभृतयः षड्देवताप्रतिमाः नन्दादीनि मङ्गलवस्तूनि, अन्ये त्वाहुः, नन्दं वृत्तं लोहासनम्, भद्रं शरासनं मूढक इति यत्प्रसिद्धम्, तले त्ति तालवृक्षान्, वय त्ति व्रजान् गोकुलानि, सिरिघरपडिरूवए त्ति भाण्डागारतुल्यान् रत्नमयत्वात्, जाणाईति शकटादीनि, जुग्गाई ति गोल्लविषयप्रसिद्धानि जम्पानानि, सिबियाओ त्ति शिबिकाः // 914 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy