SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 774 // ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 383 ब्राह्मणकुण्डग्रामपश्चिमे क्षत्रिय 383 // 8 फुट्टमाणेहिं ति, अतिरभसाऽऽस्फालनात्स्फुटद्भिरिव विदलद्भिरिवेत्यर्थः, मुइंगमत्थएहिं ति मृदङ्गानांमर्दलानां मस्तकानीव मस्तकान्युपरिभागाः पुटानीत्यर्थः, मृदङ्गमस्तकानि, बत्तीसतिबद्धेहिं ति द्वात्रिंशताऽभिनेतव्यप्रकारैः पात्ररित्येके बद्धानिक द्वात्रिंशद्वद्धानि तैः, उवचनच्चिजमाणे त्ति, उपनृत्यमानः तमुपश्रित्य नर्त्तनात्, उवगिज्जमाणे त्ति तद्गुणगानात्, उवलालिज्जमाणे त्ति, उपलाल्यमान ईप्सितार्थसम्पादनात्, पाउसे त्यादि, तत्र प्रावृट् श्रावणादिः, वर्षा रात्रोऽश्वयुजादि, शरन्मार्गशीर्षादिः, हेमन्तो माघादिः,वसन्तः चैत्रादिः, ग्रीष्मो ज्येष्ठादिः, ततश्च प्रावृट्च वर्षारात्रश्च शरच्च हेमन्तश्च वसन्तश्चेति प्रावृड्वर्षारात्रशरद्धेमन्त- कुंडग्रामे जमालिवसन्तास्तेच ते ग्रीष्मपर्यन्ताश्चेति कर्मधारयोऽतस्तान् षडपि, ऋतून कालविशेषान्, माणमाणे त्ति मानयन् तदनुभावमनुभवन् कुमारः। गालेमाणे ति गालयन्नतिवाहयन् // 0 सिघाडगतिगचउक्कचच्चर, इह यावत्करणादिदं दृश्यं चउम्मुहमहापहपहेसु त्ति, बहुजणसद्देइ प्रभोोग्रामे आगमनं व त्ति यत्र शृङ्गाटकादौ बहूनां जनानां शब्दस्तत्र बहुजनोऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र च बहुजनशब्दः परस्परा- पर्युपासना धर्मोपदेशलापादिरूपः, इतिशब्दो वाक्यालङ्कारे वाशब्दो विकल्पे, जहा उववाइए (प०५७-१),त्ति तत्र चेदं सूत्रमेवं लेशतः, जणवूहेइ प्रतिबोधादि। वा जणबोलेइ वा जणकलकलेति वा जणुम्मीइ वा जणुक्कलियाइ वा जणसन्निवाएइ वा बहुजणो अन्नमन्नस्स एवमाइक्खइ एवं भास त्ति, अस्यामर्थः,जनव्यूहो जनसमुदायः, बोलः, अव्यक्तवर्णो ध्वनिः, कलकलः स एवोपलभ्यमानवचनविभागः, ऊर्मिः सम्बाधः, उत्कलिका लघुत्तरः समुदायः, संनिपातोऽपरापरस्थानेभ्यो जनानामेकत्र मीलनम्, आख्याति सामान्यतः, भाषते व्यक्तपर्यायवचनतः, एतदेवार्थद्वयं पर्यायतः क्रमेणाह, एवं प्रज्ञापयत्येवं प्ररूपयतीति, अहापडिरूव मिह यावत्करणादिदं दृश्यम्, उग्गहं ओगिण्हति रत्ता संजमेणं तवसा अप्पाणं भावेमाणे त्ति, जहा उववाइए (प० 57-1) त्ति, तदेव लेशतो दर्श्यते, // 774 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy