________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 741 // ९शतके उद्देशकः 32 गाड्याधिकारः। सूत्रम् 373 (अपूर्णम्) पञ्चनारकजीवप्रवेशनकेव्यादिसंयोगी षट् धूमप्रभया चत्वारः तमःप्रभया द्वाविति, द्विकयोगे द्विचत्वारिंशत्, त्रिकयोगेतु तासांपञ्चत्रिंशद्विकल्पास्ते चाक्षसञ्चारणया गम्यास्तदेवमेते सर्वेऽपि चतुरशीतिरिति / 7 / 42 // 35 // 84 // 14 चत्तारि भंते! नेरइये त्यादौ दशोत्तरे द्वे शते विकल्पानाम्, तथाहि-पृथिवीनामेकत्वेसप्त विकल्पाः, द्विकसंयोगे तु तासामेकस्त्रय इत्यनेन नारकोत्पादविकल्पेन रत्नप्रभयासह शेषाभिः / क्रमेण चारिताभिर्लब्धाः षट्, द्वौ द्वावित्यनेनापि षट्, त्रय एक इत्यनेनापि षडेव, तदेवमेतेऽष्टादश, शर्कराप्रभया तु तथैव त्रिषु पूर्वोक्तनारकोत्पादविकल्पेषु पञ्च पञ्चेति पञ्चदश, एवं वालुकाप्रभया चत्वारश्चत्वार इति द्वादश, पङ्कप्रभया त्रयस्त्रय इति नव, धूमप्रभया द्वौ द्वाविति षट्, तमःप्रभयैकैक इति त्रयः, तदेवमेते द्विकसंयोगे त्रिषष्टिः 63, तथा पृथिवीनां त्रिकयोग एक एको द्वौ चेत्येवं नारकोत्पादविकल्पे रत्नप्रभाशर्कराप्रभाभ्यां सहान्याभिः क्रमेण चारिताभिर्लब्धाः पञ्च, एको द्वावेकश्वेत्येवं नारकोत्पादविकल्पान्तरेऽपि पञ्च, द्वावेक एकश्चेत्येवमपि नारकोत्पादविकल्पान्तरे पश्चैवेति पञ्चदश 15, एवं रत्नप्रभावालुकाप्रभाभ्यां सहोत्तराभिः क्रमेण चारिताभिर्लब्धा द्वादश 12, एवं रत्नप्रभापङ्कप्रभाभ्यां नव, रत्नप्रभाधूमप्रभाभ्यां षट्, रत्नप्रभातमःप्रभाभ्यां त्रयः,शर्कराप्रभावालुकाप्रभाभ्यां द्वादश 12, शर्कराप्रभा- त्रिकयोगे पङ्कप्रभाभ्यां नव,शर्कराप्रभाधूमप्रभाभ्यां षट्, शर्कराप्रभातमःप्रभाभ्यां त्रयः, वालुकाप्रभापङ्कप्रभाभ्यां नव, 45 रत्न | 30 शर्करा, वालुकाप्रभाधूमप्रभाभ्यां षट्, वालुकाप्रभातमः प्रभाभ्यां त्रयः, पङ्कप्रभाधूमप्रभाभ्यां षट्, पङ्कप्रभातमःप्रभाभ्यां त्रयः, धूमप्रभादिभिस्तु त्रय इति, तदेवं त्रिकयोगे पञ्चोत्तरं शतं चतुष्कसंयोगे तु पञ्चत्रिंशदिति, एवं ९पंकप्रभा 3 धूमप्रभा सप्तानां त्रिषष्टेः पद्योत्तरशतस्य पञ्चत्रिंशतश्च मीलने द्वे शते दशोत्तरे भवत इति // 373 (अपूर्णम् // 15 पंच भंते! नेरइया नेरइयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होजा? पुच्छा, गंगेया! रयणप्पभाए वा होज्जा जाव इत्यादि विविधभा प्रश्रा:।