________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 706 // 8 शतके उद्देशक: 10 देशाऽऽराधनाधधिकारः। सूत्रम् 357-358 22 केवतिया णं भंते! लोयागासपएसा पन्नत्ता?, गोयमा! असंखेज्जा लोयागासपएसा प० // 23 एगमेगस्सणं भंते! जीवस्स केवइया जीवपएसा प०?, गोयमा! जावतिया लोगागासपएसा एगमेगस्सणंजीवस्स ए(ता)वतिया जीवपएसा प०॥सूत्रम् 358 // 17 एगे भंते! पोग्गलत्थिकाय यित्यादि,पुद्गलास्तिकायस्य, एकाणुकादिपुद्गलराशेः प्रदेशो निरंशोऽशः पुद्गलास्तिकायप्रदेशः परमाणुः, द्रव्यं गुणपर्याययोगि द्रव्यदेशो द्रव्यावयवः, एवमेकत्वबहुत्वाभ्यां प्रत्येकविकल्पाश्चत्वारः, द्विकसंयोगा अपि चत्वार एवेति प्रश्नः, उत्तरं तु स्याहव्यं द्रव्यान्तरासम्बन्धे सति, स्यामुव्यदेशो द्रव्यान्तरसम्बन्धे सति, शेषविकल्पानां तु प्रतिषेधः, परमाणोरेकत्वेन बहुत्वस्य द्विकसंयोगस्य चाभावादिति / 18 दो भंते! इत्यादि, इहाष्टासु भङ्गकेषु मध्य आद्याः पञ्च भवन्ति, न शेषाः, तत्र द्वौ प्रदेशौ स्याद्रव्यम्, कथं?, यदा तौ द्विप्रदेशिकस्कन्धतया परिणतौ तदा द्रव्यं 1, यदा तु व्यणुकस्कन्धभावगतावेव तौ द्रव्यान्तरसम्बन्धमुपगतौ तदा द्रव्यदेशः 2, यदा तु तौ द्वावपि भेदेन व्यवस्थितौ तदा द्रव्ये 3, यदा तु तावेव व्यणुकस्कन्धतामनापद्य द्रव्यान्तरेण सम्बन्धमुपगतौ तदा द्रव्यदेशाः 4, यदा पुनस्तयोरेकः केवलतया स्थितो द्वितीयश्च द्रव्यान्तरेण सम्बन्धस्तदा द्रव्यं च द्रव्यदेशश्चेति पञ्चमः, शेषविकल्पानांतु प्रतिषेधोऽसम्भवादिति // 19 तिन्नि भंते! इत्यादि, त्रिषु प्रदेशेष्वष्टमविकल्पवर्जाः सप्त विकल्पाः संभवन्ति, तथाहि, यदा त्रयोऽपि त्रिप्रदेशिकस्कन्धतया परिणतास्तदा द्रव्यं 1, यदा तु त्रिप्रदेशिकस्कन्धतापरिणता एव द्रव्यान्तरसम्बन्धमुपगतास्तदा द्रव्यदेशः 2, यदा पुनस्ते त्रयोऽपि भेदेन व्यवस्थिता द्वौ वा व्यणुकीभूतावेकस्तु केवल एव स्थितस्तदा दव्वाई ति 3, यदा तु ते त्रयोऽपि स्कन्धतामनागता एव द्वौ वा व्यणुकीभूतावेकस्तु केवल एवेत्येवं द्रव्यान्तरेण संबद्धास्तदा दव्वदेसा इति 4, यदा तु तेषां द्वौ व्यणुकतया परिणतावेकश्च द्रव्यान्तरेण संबद्धः, अथवैकः केवल एव स्थितो द्वौ तु व्यणुकतया परिणम्य द्रव्यान्तरेण संबद्धौ तदा दव्वं च दव्वदेसे यत्ति व्यत्वादि प्रश्नाः / लोकैकजीवप्रदेशा संख्याप्रश्नाः। // 706 //