________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 704 // वतो हि चारित्रं प्रति प्रयत्नस्य त्रिविधस्याप्यविरुद्धत्वादिति / उत्कृष्टायां तु चारित्राराधनायामुत्कृष्टैव दर्शनाराधना, प्रकृष्टचारित्रस्य प्रकृष्टदर्शनानुगतत्वादिति // 8 अथाराधनाभेदानां फलप्रदर्शनायाह, उक्कोसियंण मित्यादि, तेणेव भवग्गहणेणं सिज्झइ त्ति, उत्कृष्टां ज्ञानाराधनामाराध्य तेनैव भवग्रहणेन सिद्ध्यति, उत्कृष्टचारित्राराधनायाः सद्भावे, कप्पोवएसु व त्ति कल्पोपगेषु सौधर्मादिदेवलोकोपगेषु देवेषु मध्य उपपद्यते, मध्यमचारित्राराधनासद्भावे, कप्पातीएसुवत्ति ग्रैवेयकादिदेवेषूत्पद्यते, मध्यमोत्कृष्टचारित्राराधनासद्भावे इति, 9 तथोक्कोसियं णं भंते! दंसणाराहण मित्यादि, एवं चेव त्ति करणात्, तेणेव भवग्गहणेणं सिज्झई त्यादिदृश्यम्, तद्भवसिद्ध्यादि च तस्यां स्यात्, चारित्राराधनायास्तत्रोत्कृष्टाया मध्यमायाश्चोक्तत्वादिति, 10 तथो कोसियण्णं भंते! चारित्ताराहण मित्यादौ, एवं चेव त्ति करणात्, तेणेव भवग्गहणेण मित्यादि दृश्यम्, केवलं तत्र, अत्थेगइए कप्पोवगेसुवेत्यभिहितमिह तु तन्न वाच्यम्, उत्कृष्टचारित्राराधनावतः सौधर्मादिकल्पेष्वगमनाद्, वाच्यं पुनरत्थेगइए कप्पातीएसु उववज्जइ त्ति सिद्धिगमनाभावे तस्यानुत्तरसुरेषुगमनात्, एतदेव दर्शयतोक्तं नवर मित्यादि।११मध्यमज्ञानाराधनासूत्रे मध्यमत्वं ज्ञानाराधनाया अधिकृतभव एव निर्वाणाभावात्, भावे पुनरुत्कृष्टत्वमवश्यम्भावीत्यवसेयम्, निर्वाणान्यथाऽनुपपत्तेरिति, दोच्चेणं त्ति, अधिकृतमनुष्यभवापेक्षया द्वितीयेन मनुष्यभवेन तच्चं पुण भवग्गहणं ति, अधिकृतमनुष्यभवग्रहणापेक्षया तृतीयं मनुष्यभवग्रहणम्, एताश्च चारित्राराधनासंवलिता ज्ञानाधाराधना इह विवक्षिताः, कथमन्यथा जघन्यज्ञानाराधनामाश्रित्य वक्ष्यति सत्तट्ठभवग्गहणाई पुण णाइक्कमइ त्ति, यतश्चारित्राराधनाया एवेदं फलमुक्तम्, यदाह, अट्ठभवा उ चरित्ते त्ति (अष्टौ भवास्तुचारित्रे), श्रुतसम्यक्त्वदेशविरतिभवास्त्वसङ्खयेया उक्ताः, ततश्चरणाराधनारहिता ज्ञानदर्शनाराधना असङ्खयेयभविका अपि भवन्ति नत्वष्टभविका एवेति // 355 // अनन्तरं जीवपरिणाम उक्तोऽथ पुद्गलपरिणामाभिधानायाह 8 शतके उद्देशक: 10 देशाऽऽराधनाद्यधिकारः। सूत्रम् 355 | ज्ञानदर्शनचारित्राराधना तत्प्रकार | तेषामुत्कृष्टा दीनां परस्पर | संबन्ध | तेषाचाराध कानां सिद्धिगमनप्रश्नाः /