________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 627 // 8 शतके उद्देशक:६ प्रासुकदानाधिकारः। सूत्रम् 332 संयतासंयतयोः प्रासुकाप्रासुकादिदानफलप्रश्राः / चैतद्यत्से तस्य पापं कर्म क्रियते भवत्यप्रासुकदान इवेति, 2 बहुतरिय त्ति पापकर्मापेक्षया,अप्पतराए त्ति, अल्पतरं निर्जरापेक्षया, अयमर्थः, गुणवते पात्रायाप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहारतस्तच्चारित्रबाधा च भवति, ततश्च चारित्रकायोपष्टम्भान्निर्जरा जीवघातादेश्चपापं कर्म, तत्र चस्वहेतुसामर्थ्यात्पापापेक्षया बहुतरा निर्जरा निर्जरापेक्षया चाल्पतरं पापं भवति, इह च विवेचका मन्यन्ते, असंस्तरणादिकारणत एवाप्रासुकादिदाने बहुतरा निर्जरा भवति नाकारणे, यत उक्तम्, संथरणमि असुद्धं दोण्हविगेण्हंतदितयाणऽहियं। आउरदिट्ठतेणं तं चैव हियं असंथरणे॥१॥इति, (निर्वाहेऽशुद्धंगृह्णद्ददतोयोरप्यहितं / आतुरद्दष्टान्तेन तदेवासंस्तरणे हितं॥१॥) अन्ये त्वाहुः, अकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशालूहुतरा निर्जरा भवत्यल्पतरं च पापं कर्मेति, निर्विशेषणत्वात् सूत्रस्य परिणामस्य च प्रमाणत्वात्, आह च परमरहस्समिसीणं समत्तगणिपिडगझरियसाराणं / परिणामियं पमाणं निच्छयमवलंबमाणाणं॥१॥ (समस्तगणिपिटकस्मारितसाराणामृषीणां / / परमरहस्यं निश्चयमवलम्बयतां पारिणामिकं प्रमाणम् (विवादास्पदे दाने)॥१॥) यच्चोच्यते संथरणंमि असुद्ध मित्यादिनाऽशुद्धं द्वयोरपि दातृगृहीत्रोरहितायेति तद्वाहकस्य व्यवहारतः संयमविराधनादायकस्य च लुब्धकदृष्टान्तभावितत्वेनाव्युत्पन्नत्वेन वा ददतःशुभाल्पायुष्कतानिमित्तत्वात्, शुभमपिचायुरल्पमहितं विवक्षया, शुभाल्पायुष्कतानिमित्तत्वंचाप्रासुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राक् चर्चितं यत्पुनरिह तत्त्वंतत्केवलिगम्यमिति / 3 तृतीयसूत्रे अस्संजयअविरये त्यादिनागुणवान् पात्रविशेष उक्तः, फासुएण वा अफासुएण वे त्यादिना तु प्रासुकाप्रासुकादेर्दानस्य पापकर्मफलता निर्जराया अभावश्चोक्तः, असंयमोपष्टम्भस्योभयत्रापि तुल्यत्वात्, यश्च प्रासुकादौ जीवघाताभावेनाप्रासुकादौ च जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः, पापकर्मणो निर्जराया अभावस्यैव च विवक्षितत्वादिति, सूत्रत्रयेणापि चानेन मोक्षार्थमेव