________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 509 // कतिविहा ण मित्यादि, एवं जहा जीवाभिगमे (प० 139) त्ति, एवं च तत्रैतत्सूत्रं पुढविकाइया जाव तसकाइया, से किं तं पुढविका?, पुढविका दुविहा प०, तंजहा- सुहुमपुढविकाइया बायरपुढविकाइये त्यादि, अन्तः पुनरस्य, एगे जीवे एगेणं समएणं एक किरियं पकरेइ, तंजहा- सम्मत्तकिरियं वा मिच्छत्तकि० वाऽत एवोक्तं जाव सम्मत्ते त्यादि, वाचनान्तरे त्विदं दृश्यते जीवा छव्विह पुढवी जीवाण ठिती भवहिती काए। निल्लेवण अणगारे किरिया सम्मत्त मिच्छत्ता॥१॥ इति, तत्र च षड्डिधा जीवा दर्शिता एव, पुढवि त्ति षड्डिधा बादरपृथ्वी श्लक्ष्णा 1 शुद्धा 2 वालुका 3 मनःशिला 4 शर्करा 5 खरपृथिवी 6 भेदात्, तथैषामेव * पृथिवीभेदजीवानां स्थितिरन्तर्मुहूर्तादिका यथायोगं द्वाविंशतिवर्षसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थितिर्वाच्या, साच सामान्यतोऽन्तर्मुहर्तादिका त्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, साच जीवस्य जीवकायेसर्वाद्धमित्येवमादिका, तथा निर्लेपना वाच्या, सा चैवं प्रत्युत्पन्न पृथिवी कायिकाः समयापहारेण जघन्यपदेऽसङ्ख्याभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदमसङ्खयेयगुणमित्यादि। अणगारे त्ति, अनगारवक्तव्यता वाच्या, सा चेयम्, अविशुद्धलेश्योऽनगारोऽसमवहतेनात्मनाविशुद्धलेश्यं देवं देवीमनगारं जानाति?, नायमर्थ (समर्थः) इत्यादि। किरिया सम्मत्त मिच्छत्ते ति, एवं दृश्यः, अन्ययूथिका एवमाख्यान्ति, एको जीव एकेन समयेन द्वे क्रिये प्रकरोति सम्यक्त्वक्रियां मिथ्यात्वक्रियांचेति, मिथ्या चैतद्विरोधादिति (जीवा० सूत्रम् १००-०४)॥२८१॥सप्तमशते चतुर्थोद्देशकः॥ 7-4 // ॥सप्तमशतके पञ्चमोद्देशकः॥ चतुर्थे संसारिणो भेदत उक्ताः, पञ्चमे तु तद्विशेषाणामेव योनिसङ्गहं भेदत आह ७शतके उद्देशक:४ संसारीजीवप्रज्ञापनाऽधिकारः। सूत्रम् 281 जीवपृथिव्योधंदा: पृथिव्यायुषभवस्थित्यादि प्रश्नाः / उद्देशक:५ खचरजीवयोनिरधिकारः। // 500