SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ / / 499 // यन्त्रितं नियन्त्रितम्, प्रतिज्ञातदिनादौ ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयम्, यदाह मासे मासे य तवो अमुगो / अमुगे दिणमि एवइओ। हटेण गिलाणेण व कायवो जाव ऊसासो॥१॥ एयं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं / जंगेण्हतऽणगारा उद्देशक:२ विरतिअणिस्सियप्पा अपडिबद्धा॥२॥ साकार मिति, आक्रियन्त इत्याकाराः प्रत्याख्यानापवादहेतवो महत्तराकारादयः, सहाऽऽकारै- रधिकारः। वर्त्तत इति साकारम्, अविद्यमानाऽऽकारमनाकारम्, यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादौ महत्तराद्याकारमनु सूत्रम् 272 मूलोत्तरगुणचारयद्भिर्विधीयते तदनाकारमिति भावः, केवलमाकारेऽप्यनाभोगसहसाकारावुच्चारयितव्यावेव, काष्ठाङ्गल्यादेर्मुखेप्रक्षेपणतो प्रत्याख्यानभङ्गोमा भूदिति, अतोऽनाभोगसहसाकारपेक्षया सर्वदा साकारमेवेति, परिमाणकृत मिति दत्त्यादिभिः कृतपरिमाणम्, अभाणि भेदप्रभेद प्रश्नाः / च दत्तीहि वकवलेहि व घरेहि भिक्खाहिं अहव दव्वेहिं। जो भत्तपरिच्चायं करेति परिमाणकडमेयं॥१॥निरवशेष समग्राशनादिविषयम्, अनागताति क्रान्तादिभणितं च सव्वं असणं सव्वं च पाणगं सव्वखज्जपेज्जविहिं। परिहरइ सव्वभावेणेयं भणियं निरवसेसं॥१॥साएयं चेव त्ति केतः दिग्वतादि। चिह्नम्, सह केतेन वर्त्तते संकेतम्, दीर्घता च प्राकृतत्वात्, सङ्केतयुक्तत्वाद्वा सङ्केतमङ्गष्ठसहितादि, यदाह अंगुट्ठ मुट्ठि गंठी / घर सेऊ सास थिबुग जोइक्खे। भणियं सकेयमेयं धीरेहिं अणतणाणीहिं॥१॥ अद्धाए त्ति, अद्धा कालस्तस्याः प्रत्याख्यानं पौरुष्यादिकालस्य नियमनम्, आह च अद्धापच्चक्खाणं जंतं कालप्पमाणछेएणं / पुरिमपोरुसीहिं मुहत्त मासद्धमासेहिं॥१॥८ O मासे मासे च तपोऽमुकममुष्मिन् दिन इयत्। हृष्टेन ग्लानेन वा कर्तव्यं यावदुच्छ्रासः॥ 1 // एतत् प्रत्याख्यानं नियन्त्रितं धीरपुरुषप्रज्ञप्तं / यद् गृह्णन्त्यनगारा अनिश्रितात्मानोऽप्रतिबद्धाः॥२॥ दत्तिभिश्च कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः / यो भक्तपरित्यागं करोति परिमाणकृतमेतत्॥१॥0 सर्वमशनं सर्वं पानकं सर्व। खाद्यपेयविधिं / परिहरति सर्वभावेनैतद्भणितं निरवशेषम् // 1 // 0 अष्ठमुष्टिग्रन्थिगृहस्वेदोच्छासस्तिबुकज्योतिष्काः। भणितं संकेतमेतद्धीरैरनन्तज्ञानिभिः॥१॥8 MO तदद्धाप्रत्याख्यानं यत् कालप्रमाणच्छेदेन / पूर्वार्धपौरुषीभ्यां मुहूर्तमासार्धमासैः॥ 1 // S
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy