SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 498 // 7 शतके उद्देशकः 2 विरतिरधिकारः। सूत्रम् 272 मूलोत्तरगुणप्रत्याख्यानभेदप्रभेद प्रश्रा:। अतिहिसंविभागो७ अपच्छिममारणंतियसंलेहणाझूसणाराहणता॥सूत्रम् 272 // 2 कतिविहे ण मित्यादि, मूलगुणपच्चक्खाणे य त्ति चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः प्राणातिपातविरमणादयो मूलगुणास्तद्रूपं प्रत्याख्यानं निवृत्तिर्मूलगुणविषयं वा प्रत्याख्यानमभ्युपगमः, मूलगुणप्रत्याख्यानम्, उत्तरगुणपच्चक्खाणे य त्ति मूलगुणापेक्षयोत्तरभूता गुणा वृक्षस्य शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानम्, 3 सव्वमूलगुणे त्यादि, सर्वथा मूलगुणप्रत्याख्यानं सर्वमूलगुणप्रत्याख्यानम्, देशतो मूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानम्, तत्र सर्वमूलगुणप्रत्याख्यानं सर्वविरतानाम्, देशमूलगुणप्रत्याख्यानंतु देशविरतानाम्॥७ अणागय गाहा, अनागतकरणादनागतं पर्युषणादावाचार्यादिवैयावृत्त्यकरणेनान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, आह च होही पज्जोसवणा मम य तया अंतराइयं होज्जा / गुरुवेयावच्चेणं 1 तवस्सि 2 गेलण्णयाए वा 3 ॥१॥सो दाइ तवोकम्मं पडिवज्जइ तं अणागए काले। एयं पच्चक्खाणं अणागयं होइ नायव्वं ॥२॥इति, एवमतिक्रान्तकरणादतिक्रान्तंभावना तु प्राग्वत्, उक्तं च पज्जोसवणाइ तवं जो खलु न करेइ कारणज्जाए। गुरुवेयावच्चेणं 1 तवस्सि, 2 गेलण्णयाए वा ३॥१॥सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले। एयं पच्चक्खाणं अतिकंतं होइ नायव्वं ॥२॥ति, कोटीसहितमिति मीलितप्रत्याख्यानद्वयकोटि चतुर्थादिकृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः, अवाचि च पट्ठवणओ उ दिवसो पच्चक्खाणस्स निट्ठवणओ य। जहियं समेंति दोन्नि उ तं भन्नइ कोडिसहियं तु॥२॥ नियंटितं चेव नितरां 8 भविष्यति पर्युषणा मम च तदाऽन्तरायो भविष्यति। गुरुवैयावृत्येन तपस्विवै० ग्लानतया वा॥१॥ तदिदानीं तपःकर्म प्रतिपद्ये तदनागते काले। एतत् प्रत्याख्यानमनागतं भवति ज्ञातव्यं / / 2 / / 0 पर्युषणायां तपो य एव नाकार्ष कारणजाते / गुरुवैयावृत्येन तपस्विवै० ग्लानतया वा // 1 // तदिदानीं तपःकर्म प्रतिपद्ये तदतिक्रान्ते काले। एतत् प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यं // 2 // 0 प्रस्थापकस्तु दिवसः प्रत्याख्यानस्य निष्ठापकश्च / यत्र समेतो द्वौ तु तद्भण्यते कोटीसहितमेव // 3 // अनागतातिक्रान्तादिदिग्वतादि। // 49
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy