________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 454 // तमस्काय परिणामेन परिणमनात् कदूषणा सैव कदूषणिका, दीर्घता च प्राकृतत्वात्, अतःसत्यप्यसावसतीति, 16 काले त्ति कृष्णः / 6 शतके कालावभासे त्ति कालोऽपि कश्चित् कुतोऽपिकालोनावभासत इत्यत आह, कालावभासः कालदीप्तिर्वा, गंभीरलोमहरिसजणणे उद्देशक:५ तमस्कायात्ति गम्भीरश्चासौ भीषणत्वाद्रोमहर्षजननश्चेति गम्भीररोमहर्षजननः, रोमहर्षजनकत्वे हेतुमाह भीमे त्ति भीष्म, उत्तासणए त्ति, धिकारः। उत्कम्पहेतुः, निगमयन्नाह परमे त्यादि, यत एवमत एवाह देवेविण मित्यादि, तप्पढमयाए त्ति दर्शनप्रथमतायाम्, खुभाएजत्ति सूत्रम् 241 स्कभ्नीयात् क्षुभ्येत्, अहे ण मित्यादि, अथैनं तमस्कायमभिसमागच्छेत् प्रविशेत्ततो भयात् सीहं ति कायगतेरतिवेगेन तुरियं समुत्थान तुरियं ति मनोगतेरतिवेगात्, किमुक्तं भवति? क्षिप्रमेव, वीइवएज्जत्ति व्यतिव्रजेदिति // 17 तमे ति वेत्यादि, तमोऽन्धकाररूपत्वा संस्थान विष्कम्भ दित्येतत्, वा विकल्पार्थः, तमस्काय इति वान्धकारराशिरूपत्वात्, अन्धकारमिति वा तमोरूपत्वात्, महान्धकारमिति वा / किंमहालयादि महातमोरूपत्वात्, लोकान्धकारमिति वा लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याभावात्, एवं लोकतमिश्रमिति वा, तमस्काये ग्रामसूर्यादि देवान्धकारमिति वा देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वात्, एवं देवतमिश्रमिति वा देवारण्यमिति वा, बलवद्देवभयान्नश्यतां देवानां तथाविधारण्यमिव शरणभूतत्वात्, देवव्यूह इति वा देवानांदुर्भेदत्वाव्यूह इव, चक्रादिव्यूह इव देवव्यूहः, देवपरिघ इति वा देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात्, देवप्रतिक्षोभ इति वा तत्क्षोभहेतुत्वात्, अरुणोदक इति वा समुद्रः, अरुणोदकसमुद्रजलविकारत्वादिति // 18 पूर्वं पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्टाऽथ पृथिव्यप्कायपर्यायतां पृथिव्यप्कायौ च जीवपुद्गलरूपाविति तत्पर्यायतां च प्रश्नयन्नाह तमुक्काए ण मित्यादि, 19 बादरवायुवनस्पतयस्त्रसाश्च तत्रोत्पद्यन्तेऽप्काये तदुत्पत्तिसम्भवात्, नत्वितरेऽस्वस्थानत्वात्, अत उक्तं नो चेवण मित्यादि / / 241 // तमस्कायसादृश्यात्कृष्णराजिप्रकरणम् तस्यवर्ण णामा