________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 447 // एव, तत्रच जीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तैजसादिसंयोगस्य, नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तु तृतीयभङ्गाः, 6 शतके एतेषु च शरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति, (r) असरीरे त्यादि, अशरीरेषु जीवादिषु सप्रदेशताऽऽदित्वेन वक्तव्येषु उद्देशक:४ सप्रदेशाजीवसिद्धपदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्राशरीरत्वस्याभावादिति। आहारपज्जत्तीए इत्यादि, इह च जीवपदे धिकारः। पृथिव्यादिपदेषु च बहूनामाहारादिपर्याप्तीः प्रतिपन्नानां तदपर्याप्तित्यागेनाऽऽहारपर्याप्त्यादिभिः पर्याप्तिभावं गच्छतां चल सूत्रम् 239 जीवनरयिबहूनामेव लाभात्सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः, शेषेषु तु त्रयो भङ्गा इति, (r) भासामणे त्यादि, इह भाषामनसोः कादीनां पयाप्तिर्भाषामनःपर्याप्तिः, भाषामनःपर्याप्त्योस्तु बहुश्रुताभिमतेन केनापि कारणेनैकत्वं विवक्षितं ततश्च तया पर्याप्तका कालादेशेन सप्रदेशत्वादि यथा सजिनस्तथा सप्रदेशादितया वाच्याः, सर्वपदेषु भङ्गकत्रयमित्यर्थः, पञ्चेन्द्रियपदान्येव चेह वाच्यानि, पर्याप्तीनां चेदं प्रश्नाः / स्वरूपमाहुः, येन करणेन भुक्तमाहारं खलं रसं च कर्तुं समर्थो भवति तस्य करणस्य निष्पत्तिराहारपर्याप्तिः, करणं शक्तिरिति आहारकादि चतुर्दशद्वारेषु पर्यायौ, तथा शरीरपर्याप्ति म येन करणेनौदारिकवैक्रियाहारकाणां शरीराणां योग्यानि द्रव्याणि गृहीत्वौदारिकादिभावेन त्रिषडादि परिणमयति तस्य करणस्य निर्वृत्तिःशरीरपर्याप्तिरिति, तथा येन करणेनैकादीनामिन्द्रियाणांप्रायोग्याणि द्रव्याणि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं समर्थो भवति तस्य करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनाऽऽनप्राणप्रायोग्याणि द्रव्याण्यवलम्ब्यावलम्ब्याऽऽनप्राणतया निःस्रष्टुं समर्थो भवति तस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिरिति, तथा येन करणेन सत्यादिभाषा(याः)प्रायोग्याणि द्रव्याण्यवलम्ब्यावलम्ब्य चतुर्विधया भाषया परिणमय्य भाषानिसर्जनसमर्थो भवति तस्या करणस्य निष्पत्तिर्भाषापर्याप्तिः, तथा येन करणेन चतुर्विधमनोयोग्यानि द्रव्याणि गृहीत्वा मननसमर्थो भवति तस्य करणस्य निष्पत्तिर्मनःपर्याप्तिरिति ।®आहारअप्पज्जत्तीए इत्यादि, इह जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गाः /