________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 445 // परिणमन्ति तदैकादिसम्भवेन सप्रदेशाश्चाप्रदेशश्चेत्यादिभङ्गद्वयमित्येवं भङ्गत्रयमिति, पृथिव्यादिषु तुसप्रदेशाश्चाप्रदेशाश्चेत्येक ६शतके एवेत्यत आह, एगिदियवज्जो तियभंगो त्ति, इह च त्रयेऽपि सिद्धा न वाच्याः, विभङ्गे तु जीवादिषु भङ्गत्रयम्, तद्भावना च उद्देशक:४ सप्रदेशामत्यज्ञानाऽऽदिवत्, केवलमिहैकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्या इति, ®सजोई जहा ओहिओ त्ति सयोगी जीवादि- धिकारः। दण्डकद्वयेऽपि तथा वाच्यो यथौघिको जीवादिः, स चैवम्, सयोगी जीवो नियमात्सप्रदेशो नारकादिस्तु सप्रदेशोऽप्रदेशो सूत्रम् 239 जीवनैरयिवा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनस्तृतीयभङ्गा इति, इह सिद्धपदं नाध्येयम्, कादीनां मणजोईत्यादि, मनोयोगिनो योगत्रयवन्तः सजिन इत्यर्थः, वाग्योगिन एकेन्द्रियवर्जाः, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादयः, कालादेशेन सप्रदेशत्वादि एतेषु च जीवादिषु त्रिविधोभङ्गः, तद्भावना च मनोयोग्यादीनामवस्थितत्वे प्रथमः, अमनोयोगित्वादित्यागाच्च मनोयोगित्वा- प्रश्नाः / द्युत्पादेनाप्रदेशत्वलाभेऽन्यद्भङ्गकद्वयमिति, नवरं काययोगिनो य एकेन्द्रियास्तेष्वभङ्गकम्, सप्रदेशा अप्रदेशाश्चेत्येक एव आहारकादि चतुर्दशद्वारेषु भङ्गक इत्यर्थः, एतेषु च योग त्रयदण्डकेषु जीवादिपदानि यथासम्भवमध्येयानि सिद्धपदं च न वाच्यमिति, (r) अजोगी त्रिषडादि भङ्गाः / जहा अलेस त्ति दण्डकद्वयेऽप्यलेश्यसमवक्तव्यत्वात्तेषाम्, ततो द्वितीयदण्डकेऽयोगिषु जीवसिद्धपदयोर्भङ्गकत्रयं मनुष्येषु च षड्भङ्गीति // (r) सागारे त्यादि साकारोपयुक्तेष्वनाकारोपयुक्तेषु च नारकादिषु त्रयो भङ्गाः, जीवपदे पृथिव्यादिपदेषु च। सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, तत्र चान्यतरोपयोगादन्यतरगमने प्रथमेतरसमयेष्वप्रदेशत्वसप्रेदशत्वे भावनीये, सिद्धानां त्वेकसमयोपयोगित्वेऽपि साकारस्येतरस्य चोपयोगस्यासकृत्प्राप्त्या सप्रदेशत्वं सकृत्प्राप्त्या चाप्रदेशत्वमवसेयम्, एवं चासकृदवाप्तसाकारोपयोगान् बहूनाश्रित्य सप्रदेशा इत्येको भङ्गः, तानेव सकृदवाप्तसाकारोपयोगं चैकमाश्रित्य द्वितीयः, तथा तानेव सकृदवाप्तसाकारोपयोगांश्च बहूनधिकृत्य तृतीयः, अनाकारोपयोगे त्वसकृत्प्राप्तानाकारोपयोगानाश्रित्य प्रथमः,