________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 343 // यावदित्यर्थः, तत्र परिणामो दर्शित एव, तथा वन्न त्ति कृष्णादिलेश्यानां वर्णो वाच्यः, स चैवम् कण्हलेसा णं भंते! केरिसिया / 4 शतके वनेणं पण्णत्ते? त्यादि, उत्तरं तु कृष्णलेश्या कृष्णा जीमूतादिवत्, नीललेश्या नीला भृङ्गादिवत्, कापोती कापोतवर्णा उद्देशकः 10 सूत्रम् 175 खदिरसारादिवत्, तैजसी लोहिता शशकरक्तादिवत्, पद्मा पीता चम्पकादिवत्, शुक्ला 2 शङ्खादिवदिति, तथा रस त्ति लेश्यानामरसस्तासां वाच्यः तत्र कृष्णा तिक्तरसा निम्बादिवत्, नीला कटुकरसा नागरवत्, कापोती कषायरसाऽपक्कबदरवत्, न्योऽन्यं परिणामः तेजोलेश्याऽम्लमधुरा पक्वाम्रादि फलवत्, पद्मलेश्या कटुककषायमधुररसा चन्द्रप्रभासुरादिवत्, शुक्ललेश्या मधुररसा गुडादिवत्, गंध त्ति लेश्यानां गन्धो वाच्यः, तत्राद्यास्तिम्रो दुरभिगन्धा अन्त्यास्तु तदितराः, सुद्ध त्ति, अन्त्याः शुद्धा आद्यास्त्वितराः, अप्पसत्थ त्ति, आद्या अप्रशस्ता अन्त्यास्तु प्रशस्ताः, संकिलिट्ठ त्ति, आद्याः सङ्क्लिष्टा अन्त्यास्त्वितराः, उण्ह त्ति, अन्त्या उष्णाः स्निग्धाश्च आद्यास्तु शीता रूक्षाश्च, गति त्ति, आद्या दुर्गतिहेतवोऽन्त्यास्तु सुगतिहेतवः, परिणाम त्ति लेश्यानां कतिविधः परिणामः? इति वाच्यम्, तत्रासौ जघन्यमध्यमोत्कृष्टभेदास्त्रिधा उत्पातादिभेदाद्वा त्रिधेति, पएस त्ति, आसांप्रदेशावाच्यास्तत्र प्रत्येकमनन्तप्रदेशिका एता इति, ओगाह त्ति, अवगाहना आसांवाच्याः तत्रैता असङ्ख्यातप्रदेशावगाढाः, वग्गण त्ति वर्गणा आसांवाच्याः, तत्र वर्गणाः कृष्णलेश्यादियोग्यद्रव्यवर्गणाः, ताश्चानन्ता औदारिकादिवर्गणावत्, ठाण त्ति तारतम्येन विचित्राध्यवसायनिबन्धनानि कृष्णादिद्रव्यवृन्दानि तानि चासङ्खयेयानि, अध्यवसायस्थानानामसङ्ख्यातत्वादिति, अप्पबहुं ति लेश्यास्थानानामल्पबहुत्वं वाच्यम्, तच्चैवम्, एएसिणं भंते! कण्हलेसाठाणाणं जाव सुक्कलेसाठाणाण य जहन्नगाणं दव्वट्ठयाए 3 कयरे 2 हिंतो अप्पा वा 4?, गोयमा ! सव्वत्थोवा जह० काउलेस्साठाणा द० जह• नीललेस्साठाणा द० असंखेज्जगुणा जह• कण्हलेसाठाणा द. असंखेज्जगुणा जह० तेउलेसाठाणा द. असंखेज्जगुणा जह० पम्हलेसाठाणा द० असंखेज्जगुणा II 3x3