SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 330 // धार्मिकनिकायाः, तत्र यो देवो नारकानम्बरतले नीत्वा विमुञ्चत्यसावम्ब इत्यभिधीयते 1, यस्तु नारकान् कल्पनिकाभिः खण्डशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्यसावम्बरीषस्य भ्राष्ट्रस्य सम्बन्धादम्बरीष एवोच्यते 2, यस्तु तेषां शातनादि करोति वर्णस्तु श्यामः सश्याम इति 3, सबलेत्ति यावरे त्ति शबल इतिचापरो देव इति प्रक्रमः, सच तेषामन्त्रहृदयादीन्युत्पाटयति वर्णतश्च शबल कर्बुर इत्यर्थः 4, यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति 5, यस्तु तेषामेवाङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति 6, यः पुनः कण्डादिषु पचति वर्णतश्च कालः स काल इति 7, महाकालेत्ति यावरे त्ति महाकाल इति चापरो देव इति प्रक्रमः, तत्र यः सूक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकालः स महाकाल इति 8, असी यत्ति यो देवोऽसिना तान् छिनत्ति सोऽसिरेव 9, असिपत्ते त्ति, अस्याकारपत्रवद्वनविकुर्वणादसिपत्रः 10, कुंभे त्ति कुम्भादिषु तेषां पचनात्कुम्भः 1, क्वचित्पठ्यते असिपत्ते धणूं कुंभेत्ति, तत्रासिपत्रकुम्भौ पूर्ववत्, धणु त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिभिर्बाणैः कर्णादीनां छेदनभेदनादि करोति स धनुरिति 11, वालु त्ति कदम्बपुष्पाद्याकारवालुकासु यः पचति स वालुक इति 12, वेयरणीति य वैतरणीति च देव इति प्रक्रमः, तत्र पूयरुधिरादिभृतवैतरण्यभिधाननदीविकुर्वणाद्वैतरणीति १३,खरस्सर त्ति यो वज्रकण्टकाकुलशाल्मलीवृक्षमारोप्य नारकं खरस्वरं कुर्वन्तं कुर्वन् वा कर्षत्यसौखरस्वरः 14, महाघोसि त्ति, यस्तु भीतान् पलायमानान्नारकान् पशूनिव वाटकेषु महाघोषं कुर्वन्निरुणद्धि स महाघोष इति 15, एए पन्नरसाहिय त्ति, एवमुक्तन्यायेनै ते यमयथापत्यदेवाः पञ्चदश आख्याता इति // 166 // ५कहिणंभंते! सक्कस्स देविंदस्स देवरन्नो वरुणस्स महारन्नोसयंजले नाममहाविमाणे प०?, गोयमा! तस्सणंसोहम्मवडिंसयस्स महाविमाणस्स पच्चत्थिमेणं सोहम्मे कप्पे असंखेज्जाइं जहा सोमस्स तहा विमाणरायहाणीओ भाणियव्वा जाव पासायवडिंसया 3 शतके उद्देशकः 7 लोकपालाधिकारः। सूत्रम् 166 यमलोकपालस्य वरशिटमहाविमानस्थानादि तत्परिवारभूततद्धक्तिकादिदेव प्रश्नाः / कलहप्राणक्षयादिज्ञाता। पञ्चदश धामिका तद्यथाप त्या : / / // 330 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy