SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 244 // अणियाहिवईणं सत्त भद्दासणाईचउद्दिसिं आयरक्खदेवाणं चत्तारि भद्दासणसहस्सचउसट्ठीओ त्ति, तेत्तीसंभोम त्ति वाचनान्तरे दृश्यते, तत्र भौमानि विशिष्टस्थानानि नगराकाराणीत्यन्ये, उवयारियलेणं ति गृहस्य पीठबन्धकल्पं सव्वप्पमाणं वेमाणियप्पमाणस्स अद्धं नेयव्वं ति, अयमर्थः, यत्तस्यांराजधान्यांप्राकारप्रासादसभादिवस्तु तस्य सर्वस्योच्छ्यादिप्रमाणंसौधर्मवैमानिकविमानप्राकारप्रासादसभादिवस्तुगतप्रमाणस्यार्द्धं च नेतव्यम्, तथाहि-सौधर्मवैमानिकानां विमानप्राकारो योजनानां त्रीणि शतान्युच्चत्वेन, एतस्यास्तु सार्द्ध शतम्, तथा सौधर्मवैमानिकानांमूलप्रासादः पञ्च योजनानां शतानि तदन्ये चत्वारस्तत्परिवारभूताः साढे द्वे शते 4 प्रत्येकं च तेषां चतुर्णामप्यन्ये परिवारभूताश्चत्वारः सपादशतं 16 एवमन्ये तत्परिवारभूताः सार्धा द्विषष्टिः 64 एवमन्ये सपादैकत्रिंशत्, 256 इह तु मूलप्रसादाः साढ़े द्वे योजनशते एवमर्धार्द्धहीनास्तदपरे यावदन्तिमाः पञ्चदश योजनानि पञ्च च योजनस्याष्टांशाः, एतदेव वाचनान्तरे उक्तम्, चत्तारि परिवाडीओ पासायवडेंसगाणं अद्धद्धहीणाओ त्ति, एतेषां च प्रासादानांचतसृष्वपि परिपाटीषुत्रीणिशतान्येकचत्वारिंशदधिकानि भवन्ति, एतेभ्यः प्रासादेभ्य उत्तरपूर्वस्यां दिशि सभा सुधर्मा सिद्धायतनमुपपातसभा ह्रदोऽभिषेकसभाऽलङ्कारसभा व्यवसायसभा चेति, एतानि च सुधर्मसभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽर्द्धप्रमाणानि, ततश्चोच्छ्रय इहैषां षट्त्रिंशद्योजनानि पञ्चाशदायामो विष्कम्भश्च पञ्चविंशतिरिति, एतेषां च विजयदेवसम्बन्धिनामिवाणेगखम्भसयसण्णिविट्ठा अब्भुग्गयसुकयवइरवेइये त्यादिवर्णको वाच्यः / तथा दाराणं उप्पिं बहवे अट्ठमंगलगा झया छत्ते त्यादि,अलङ्कारश्वसभादीनांवाच्यम्,सर्वच जीवाभिगमोक्तं विजयदेवसम्बन्धि चमरस्य वाच्यं यावदुपपातसभायां सङ्कल्पश्चाभिनवोत्पन्नस्य किं मम पूर्व पश्चाद्वा कर्तुं श्रेयः? इत्यादिरूपः, अभिषेकश्चाभि (r) अनेकस्तंभशतसंनिविष्टा अभ्युद्गतसुकृतवज्रवेदिका। (c) द्वाराणामुपरि बहवोऽष्टौ 2 मङ्गलध्वजाः छत्रातिच्छत्राः / 2 शतके उद्देशक:८ चमरचंचाऽधिकारः। सूत्रम् 116 असुरराजचमरसुधर्मासभास्थान प्रश्नः / अरुणवरद्वीपतिगिच्छकूटपावरवेदिका मणिपीठीकाऽरुणोदयसमुद्र चमरचंचादिवर्णनम्। 244 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy