SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ ||237 // उष्णता महांश्चासावातपश्चेति महातपः महातपस्योपतीरं तीरसमीपे प्रभव उत्पादो यत्रासौ महातपोपतीरप्रभवः, प्रश्रवति क्षरतीति प्रश्रवणः प्रस्यन्दन इत्यर्थः, वक्कमंत्यु त्पद्यन्ते विउक्कमंति विनश्यन्ति, एतदेव व्यत्ययेनाह, च्यवन्ते चेत्युत्पद्यन्ते चेति / उक्तमेवार्थ निगमयन्नाह एस ण मित्यादि, एषोऽनन्तरोक्तरूपः, एष चान्ययूथिकपरिकल्पिताघसज्ञोमहातपोपतीरप्रभवः प्रश्रवण उच्यते, तथा एषोयोऽयमनन्तरोक्त उसिणजोणीए त्यादि स महातपोपतीरप्रभवस्य प्रश्रवणस्यार्थः, अभिधानान्वर्थः प्रज्ञप्त इति // 113 // द्वितीयशते पञ्चमः।। 2-5 // 2 शतके उद्देशकः६ भाषाऽधिकारः। सूत्रम् 114 भाषाऽव| धारणीप्रश्नः। यथाप्रज्ञापनायांभाषापदम्। ॥द्वितीयशतके षष्ठमोद्देशकः॥ पञ्चमोद्देशकस्यान्तेऽन्ययूथिका मिथ्याभाषिण उक्ताः, अथ षष्ठे भाषास्वरूपमुच्यते, तत्र सूत्रम् 48 से णूणं भंते! मण्णामीति ओहारिणी भासा, एवं भासापदं भाणियव्वं / सूत्रम् 114 // 2-6 // | से णूणं भंते! मण्णामी ति, ओहारिणी भास त्ति सेशब्दोऽथशब्दार्थे स च वाक्योपन्यासे, नूनम् नूनं) उपमानावधारणतर्कप्रश्नहेतुषु, इहावधारणे, भदन्त इति गुमन्त्रणे मन्येऽवबुध्य इति, एवमवधार्यतेऽवगम्यतेऽनयेत्यवधारणी, अवबोधबीजभूतेत्यर्थः, भाष्यत इति भाषा तद्योग्यतया परिणामितनिसृष्टनिसृज्यमानद्रव्यसंहतिरिति हृदयम्, एष पदार्थः, अयं पुनर्वाक्यार्थः, अथ भदन्त! एवमहं मन्येऽवश्यमवधारणी भाषेति / एवममुना सूत्रक्रमेण भाषापदं प्रज्ञापनायामेकादशंभणितव्यमिह स्थाने, इह च भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायैर्विचार्यते // 114 // इति द्वितीयशते षष्ठः // 2-6 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy