SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ सम्पादकीयम् श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्र सूरि वृत्ति युतम्। // 7 // // सम्पादकीयम्॥ परमपरमेष्ठिनं श्री वीरस्वामिनं श्रीवीरस्वामिनःशासनरक्षक, प्रभावकं व्याख्यानवाचस्पतिं परमगुरुवर्य श्रीमद्विजयरामचन्द्रसूरीश्वरं गुरुवरञ्च समतानिधिं परमसमाधिसाधकं मुनिप्रवरश्रीदर्शनभूषणविजयं नमस्कृत्यास्य ग्रन्थस्य सम्पादकीयं कथयामि। वर्तमानकालीने एकादशाङ्गद्वादशोपाङ्गदशप्रकीर्णकषट्छेदचतुर्मूलद्विचूलिकारूपे पञ्चचत्वारिंशदागमवर्गीकरणे नन्द्यनुयोगे चूलिकावर्गस्तः। यथा मन्दिरं शिखरेण शोभते तथाभ्यामागमाभ्यामागममन्दिरं शोभते / पञ्चज्ञानरूपा नन्दीसूत्रं मङ्गलरूपा तथा सकलागमस्य व्याख्याप्रक्रियां ज्ञातुंकूञ्चीरूपाऽनुयोगद्वारसूत्रम् / तस्मादागमपठनपूर्वे प्रथममिदं सूत्रं पठनीयम्। नन्वत्रानुयोग इति कोऽर्थः? इतिचेदुच्यते।श्रुतस्य शब्दस्यार्थेन सहानुरूपोऽनुकूलोवा योगोऽनुयोगः। वक्तुर्मनसि प्रथममर्थोप्रादुर्भवति पश्चात्तत्प्रतिपादकः शब्दः प्रयुज्यते ततः शब्दरूपः सूत्रं पञ्चादित्यनु, अथवा श्री तीर्थकरभगवता प्रथममर्थ उपदिष्टः पश्चाद्गणधराः सूत्रं रचितवन्तः। ततः सूत्रं पश्चादित्यनु, अनो:सूत्रस्यार्थेन सहयोगोऽनुयोगः / अथवैकस्य सूत्रस्यानन्तोऽर्थ इत्यर्थो महान्सूत्रं त्वणु, ततश्चाणुना सूत्रेण सह महत अर्थस्य योगोऽनुयोगः, आगमसूत्रस्य व्याख्याप्रक्रियेति यावत् / कत्तार:- यावदार्यवज्रोऽपृथगनुयोग आसीत् / स्थविरार्यरक्षितैः पृथगनुयोग कृत इत्यावश्यकनियुक्तौ तथा श्रीनंदीसूत्रस्थविरावलीप्रक्षिप्तगाथायां अणुओगो रक्खिओजेहिं' इति नमस्कारो कृत इत्यनुयोगद्वारसूत्रस्य कर्ता 'सिरिअजरक्खियथेरविरइयाई' इति पू० मु० श्रीपुण्यविजयेन दर्शितं किन्तु तस्य स्पष्टतयाऽऽधारोन किञ्चित् / मुद्रितप्रते श्रीमद्गणधरप्रवर गौतमस्वामिवाचनानुगत'मिति दर्शितं किन्तु तदपि केन प्रमाणेन कया वा हस्तलिखितप्रत्या सम्पादितमिति न ज्ञायते। अस्मिन्सम्पादने - (1) पूज्य मु० जम्बुविजय सम्पादित श्रीमहावीर जैन विद्यालयद्वारा विक्रम संवत् 2055 वर्षे प्रकाशित पुस्तकानुसारेण मूलसूत्राणि वृत्तिश्च सम्पादिता / तत्र परिशिष्टे ये पाठान्तरा विशिष्टटिप्पण्यस्तेऽत्र न समाविष्टाः। (2) श्री केसरबाई ज्ञानमन्दिर पाटनद्वारा विक्रम संवत् 1995 प्रकाशितमुद्रितप्रतौ ये पाठान्तराः वर्तन्ते ते सर्वेऽपि टिप्पण्यांदर्शिताः। // 7 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy