SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 47 // वश्यकत्वम् / तद्वाचकस्य श्रोतॄणां तदर्थोपयोगपरिणामसद्भावाद्भावत्वम्, तद्वाचकाः श्रोतारश्च पत्रकपरावर्तनहस्ताभिनय-8 आवश्यकस्य गात्रसंयतत्वकरकुड्मलमीलनादिक्रियायुक्ता भवन्ति, क्रियाच अनआगमत्वेन प्रागिहोक्ता किरियागमोन होइत्ति वचनात् / निक्षेपाः। ततश्च क्रियालक्षणे देश आगमस्याभावानोआगमत्वमपि भावनीयम् / नोशब्दस्यात्र देशनिषेधवचनत्वाद्देशे त्वागमोऽस्ति, सूत्रम् 27 नोआ०भावा० लौकिकाभिप्रायेण भारतादेरागमत्वात् / तस्माद्यथा निर्दिष्टसमये लौकिकास्तदुपयुक्ता यदवश्य भारतादि वाचयन्ति शृण्वन्ति [20] 4.2.2 वा तल्लौकिकंभावावश्यकमिति स्थितम् ।भावमाश्रित्यावश्यकंभावावश्यकंभावश्चासावावश्यकं चेति वा भावावश्यकमित्यलं कुप्रावचनिकम्। विस्तरेण / से तमित्यादि निगमनम् // 26 // उक्तो नोआगमतो भावावश्यकप्रथमभेदः / अथ तद्वितीयभेदनिरूपणार्थमाह से किं तं कुप्पावयणियं भावावस्सयं?, 2 जे इमे चरगचीरिय जाव पासंडत्था इजंजलि होम जप्प उंदुरुक्क नमोक्कारमाइयाई भावावस्सयाई करेंति / सेतं कुप्पावयणियं भावावस्सयं / / सूत्रम् 27 // // 26 // ) से किं तं कुप्पावणियमित्यादि / अत्र च निर्वचनमाह- कुप्पावयणियं भावावस्सयं जे इमे, इत्यादि / कुत्सितं प्रवचनं येषां ते / तथा तेषु भवं कुप्रावचनिकं भावावश्यकम्। किंतद्? उच्यते, य एते चरकचीरिकादय: पाषण्डस्थायथावसरमिज्याञ्जलिहोमादीनि भावरूपाण्यावश्यकानि भावावश्यकानि कुर्वन्ति तत्कुप्रावचनिकं भावावश्यकमिति सम्बन्धः / तत्र चरकादिस्वरूपं प्रागेवोक्तम्, इज्याञ्जल्यादिस्वरूपंतूच्यते / तत्र यजन मिज्यायाग इत्यर्थः, तद्विषयो जलस्याञ्जलि रिज्याञ्जलिः, यागदेवतापूजावसरभावीति हृदयमथवा यजनमिज्या पूजा, गायत्र्यादिपाठपूर्वकं विप्राणांसन्ध्यार्चनमित्यर्थः, तत्राञ्जलिरिज्याञ्जलिः। अथवा देशीभाषया, इज्जत्ति माता, तस्या नमस्कारविधौ तद्भक्तैः क्रियमाण: करकुड्मलमीलनलक्षणोऽञ्जलिरिज्याञ्जलिः। ७नो। ॐग। 0 जपोन्दुरुक्क। 7 ज्येति। // 47 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy