________________ |[2] निक्षेपः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 393 // विंशतिस्तवादिश्रुतविशेषाणांसामान्यनामानि। तथाहि, सामायिकमध्ययनमुच्यते, तदेवाक्षीणं निगद्यते, इदमेवायः प्रतिपाद्यते, एतदेव क्षपणाभिधीयते। एवं चतुर्विंशतिस्तवादिष्वप्यभिधानीयम्॥५३५॥साम्प्रतमेतेषांचतुर्णामपि निक्षेपंप्रत्येकमभिधित्सुराह- से किं तं अज्झयणे, इत्यादि / नाम स्थापना द्रव्य भावभेदाच्चतुर्विधोऽध्ययनशब्दस्य निक्षेपः। तत्र नामादिविचारःसर्वोऽपि पूर्वोक्तद्रव्या(नामा)वश्यकानुसारेण वाच्यः॥५३६-५४५॥यावन्नोआगमतो भावाध्ययनेऽज्झप्पस्साणयणमित्यादि गाथा / व्याख्या अज्झप्पस्स आणयण मिह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च पकार सकार आकार णकारलक्षणमध्यगतवर्णचतुष्टयलोपेऽज्झयणमिति भवति / अध्यात्म चेतः, तस्यानयनमध्ययनमुच्यत इति भावः। आनीयते च सामायिकाद्यध्ययनेन शोभनं चेतः। अस्मिन् सत्यशुभकर्मप्रबन्धविघटनात्, अत एवाह- कर्मणामुपचितानांप्रागुपनिबद्धानां यतोऽपचयो ह्रासोऽस्मिन्सति संपद्यते नवानां चानुपचयोऽबन्धो यतस्तस्मादिदं यथोक्तशब्दार्थोपत्तेरज्झयणं प्राकृतभाषायामिच्छन्तिसूरयः। संस्कृते त्विदमध्ययनमुच्यत इति।सामायिकादिकंचाध्ययनं ज्ञानक्रियासमुदायात्मकम् / ततश्चागमस्यैकदेशवृत्तित्वानोशब्दस्य च देशवचनत्वान्नोआगमतोऽध्ययनमिदमुक्तमिति गाथार्थः॥ से तमित्यादि निगमनत्रयम्॥५४६॥ उक्तमध्ययनमथाक्षीणनिक्षेपं विवक्षुराह से किं तं अज्झीणे?, 2 चउव्विहे पण्णत्ते, तंजहा- णामज्झीणे ठवणज्झीणे दव्वज्झीणे भावज्झीणे ॥सूत्रम् 547 // नामठवणाओपुव्वं वण्णियाओ॥सूत्रम् 548 // से किंतं दव्वझीणे?, 2 दुविहे पण्णत्ते, तंजहा- आगमतो य नोआगमतो य॥ सूत्रम् 549 // यथा (यदेव) हि। 0 निरुक्तविधिना। ©...रस्सकार...10 यने शोभनं। 7 शब्दार्थप्रतिपत्ते...। सूत्रम् 547-557 2.1 ओघ, 2.2 नाम, २.३सूत्रालापक निष्पन्नभेदाः। 2.1 ओघनिष्पत्रनिक्षेपेऽज्झीणपदस्य नामादि चतुर्निक्षेपाः।