SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 364 // 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०॥ भवियजणविबोहणट्ठाए // 122 / / असंतयं असंतएहिं उवमिज्जति, जहाखरविसाणं तहाससविसाणं / सेतं ओवमसंखा ॥सूत्रम् [1] उपक्रमः। 492 // १.३प्रमाणम्। से किं तं ओवम्म संखा, इत्यादि। सङ्ख्यानं सङ्ख्या परिच्छेदो वस्तुनिर्णय इत्यर्थः। औपम्येनोपमाप्रधाना वा सङ्कया, द्रव्यादिचतुर्भेदाः औपम्यसङ्ख्या / इयं चोपमानोपमेययोः सत्त्वासत्त्वाभ्यां चतुर्दा / तद्यथा संतयं संतएण मित्यादि / तत्र प्रथमभङ्गे तीर्थ सूत्रम् 492 करादेरुपमेयस्य कपाटादिनोपमानेन स्वरूपं संख्यायते निश्चीयत इत्यौपम्यसङ्ख्यात्वं भावनीयम् / यस्य तीर्थकरा:स्वरूप-8 तोऽनिश्चिता भवन्ति तस्य पुरवरकपाटोपमवक्षसो नगरपरिघोपमबाहवस्ते भवन्तीत्याधुपमया तत्स्वरूपनिश्चयस्येहोत्पाद्यमानत्वा भावः / द्वितीयभङ्गे पल्योपमसागरोपमाणां योजनप्रमाणपल्य वालाग्रादिकल्पनामात्रेण प्ररूपितत्त्वादसत्त्वमवसेयम्।। उपमानता चैषामेतन्महानारकाद्यायुर्महत्त्वसाधनादिति। तृतीयभङ्गे परिजूरियपेरंतमित्यादिगाथा। तत्र वसन्तसमये परिजीर्णपर्यन्तं / / स्वपरिपाकत एव प्रचलद्वन्तंवृक्षात्पतद्भश्यत्पत्रं गाथां भणतीति सम्बन्धः। परिणतत्वादेव नि:क्षीरंवृक्षवियोगादित्वलक्षणव्यसनं अष्टानां मध्ये प्राप्तं विनाशकालप्राप्तमिति / तामेव गाथामाह- जह तुब्भे, इत्यादि / वृक्षात्पतता केनचिजीर्णपत्रेण किशलयानाश्रित्योक्तम्, किं तत्? उच्यते, शृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयानि! अवहितानि भूत्वा, वृक्षात्तन्मल्लक्षणं पाण्डुपत्रं युष्माकं अप्पाहेईत्ति कथयति / किं तदित्याह- जह तुब्भे तह अम्हेत्ति, यथा पुष्पदभिनवस्निग्धकान्तीनि कमनीयकामिनीकरतलस्पर्धिलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ति दृश्यन्ते तथा वयमपि पूर्वमास्मेति क्रियाध्याहारः। यथा च परिजीर्णपर्यन्तादिस्वरूपाणि साम्प्रतं वयं वर्तेमहि यूयमपि निश्चितं कालेन तथा भविष्यथेति न काचित्स्वसमृद्धौ / Oम्म। (c) अ' नास्ति। 0 वै। 0 लक्षणं व्यसनं। 7 वृक्षात्पतन्म...। ॐ स्पर्शलक्ष्मी...। सङ्ख्याभावप्रमाणम्। 1.3.4.1.3.4 औपम्य सङ्ख्याभावप्रमाणम्। तस्य भेदचतुष्टयम्। // 364 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy