SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 2 // नमस्कारपूर्वं नन्दिमुच्चारयति / तदन्ते चाभिधत्ते, अस्य साधोरनुयोगमनुजानामि क्षमाश्रमणानां हस्तेन, द्रव्यगुणपर्यायैरनुज्ञातः। भूमिका। ततो विनेयश्छोभवन्दनकेन वन्दते, उत्थितश्च ब्रवीति- संदिशत किं भणामि? ततो गुरुराह- वन्दित्वा प्रवेदय ततो वन्दते / सूत्रम् 2 शिष्यः। उत्थितस्तु ब्रवीति- भवद्भिर्ममानुयोगोऽनुज्ञातः, इच्छाम्यनुशास्तिततो गुरुर्वदति- सम्यग्धारयान्येषां च प्रवेदय, अन्येषामपि व्याख्यानं कुर्खित्यर्थः / ततो वन्दतेऽसौ वन्दित्वा च गुरुं प्रदक्षिणयन्ति, प्रदक्षिणान्ते च भवद्भिर्ममानुयोगोऽनुज्ञात मध्ये श्रुत ज्ञानस्यैवाइत्याधुक्तिप्रत्युक्ति(क्ती?)द्वितीयप्रदक्षिणा च तथैव, पुनस्तृतीयापि तथैव / ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति, तत्पुरः नुयोग इति। स्थितश्च विनेयो वदति- युष्माकं प्रवेदितं सन्दिशत साधूनां प्रवेदयामी त्यादि, शेषमुद्देशविधिवद्वक्तव्यं यावदनुयोगानुज्ञानिमित्तं उद्देशसमुद्देशाकायोत्सर्ग करोति / तदन्ते च सनिषद्यः शिष्यो गुरुं प्रदक्षिणयति वन्दते च / पुनः प्रदक्षिणयति वन्दते च, एवं तिम्रो वाराः। नुज्ञानां श्रुत प्रत्ययानिसप्तततो गुरोर्दक्षिणभुजासन्ने निषीदति / ततो गुरुपारम्पर्यागतानि मन्त्रपदानि गुरुः तिम्रो वारा: शिष्यस्य कथयति / तदनन्तरं वन्दनकानि, यथोत्तरे प्रवर्द्धमानाः प्रवरसुगन्धमिश्रास्तिस्रोऽक्षतमुष्टीस्तस्मै ददाति, अनुयोग विधिश्च। ततो निषद्याया गुरुरुत्थाय शिष्यं तत्रोपवेश्य यथासन्निहितसाधुभिः सह तस्मै वन्दनकं ददाति / ततो विनेयो निषद्यास्थित एव नाणं पंचविहं पण्णत्त मित्यादिसूत्रमुच्चार्य यथाशक्ति व्याख्यानं करोति / तदन्ते च साधवो वन्दनकं ददति / ततः शिष्यो निषद्यात उत्तिष्ठति, गुरुरेव पुनस्तत्र निषीदति / ततो द्वावप्यनुयोगविसर्गार्थं कालप्रतिक्रमणार्थं च प्रत्येकं कायोत्सर्ग कुरुतः। ततः शिष्यो निरुद्धं प्रवेदयते, निरुद्धं करोतीत्यर्थः / एवं श्रुतस्यैवोद्देशादयः प्रवर्त्तन्ते, न शेषज्ञानानाम् / अत्र चानुयोगेनैवाधिकारो न शेषैः, अनुयोगद्वारविचारस्यैवेह प्रक्रान्तत्वाद् / अत्र यथाभिहितमुपजीव्याह शिष्यः, // 9 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy