________________ भूमिका। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। सूत्रम् 2 [3] पञ्चज्ञान ति भणित्वा वन्दनकं ददाति (3), ततः पुनरुत्थितः प्रतिपादयति, भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति। ततो गुरुः प्रत्युत्तरयति योगं कुर्विति / एवं सन्दिष्टो विनेय इच्छामी ति भणित्वा वन्दनकं ददाति / ततोऽत्रान्तरे नमस्कारमुच्चारयन्नसौ गुरुं प्रदक्षिणयति, तदन्ते च गुरोः पुरतः स्थित्वा पुनर्वदति भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्तिंततो गुरुराह-योगं कुर्वि ति। एवं संदिष्ट इच्छामीति भणित्वा वन्दित्वा च पुनस्तथैव गुरुंप्रदक्षिणयति / तदन्ते च पुनस्तथैव गुरुशिष्ययोर्वचनप्रतिवचने, तथैव च तृतीयप्रदक्षिणां विदधाति विनेयः / एतानि च चतुर्थवन्दनकादीनि त्रीण्यपि वन्दनकान्येकमेव चतुर्थं गण्यते, एकार्थप्रतिबद्धत्वादिति। (4), ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति, निषण्णस्य च गुरोः पुरतोऽर्द्धावनतगात्रो विनेयो वक्ति, युष्माकं प्रवेदितं संदिशत साधूनां प्रवेदयामि। ततो गुरुराह प्रवेदये ति / तत इच्छामी ति भणित्वा विनेयो वन्दनकं ददाति / (5), प्रत्युत्थितश्चोच्चारितपञ्चपरमेष्ठिनमस्कारः पुनर्वन्दनकं ददाति / (6), पुनरुत्थितो वदतियुष्माकं प्रवेदितं साधूनां च तत्प्रवेदित सन्दिशत करोमि कायोत्सर्गम्। ततोगुरुरनुजानीतेकुर्विति। ततपुनरपि वन्दनकंददाति / (7), एतानि सप्त थो(छो)भवन्दनकानि श्रुतप्रत्ययानि भवन्ति। ततःप्रत्युत्थितोऽभिधत्ते,अमुकस्योद्देशनिमित्तं करोमि कायोत्सर्गमन्यत्रोच्छासितादित्यादि यावद्व्युत्सृजामी ति।ततः कायोत्सर्गस्थितःसप्तविंशतिमुच्छ्रासांश्चिन्तयति सागरवरगम्भीरेति यावच्चतुर्विंशतिस्तवं चिन्तयतीत्यर्थः / उद्देससमुद्देसे सत्तावीसं अणुण्णवणयाए (जीत० क० गा० 22) इतिवचनात्। तत: पारितकायोत्सर्गः सम्पूर्णं चतुर्विंशतिस्तवं भणित्वा परिसमाप्तोद्देशक्रियत्वागुरोः थोभवन्दनकं ददाति / तच्चन श्रुतप्रत्ययम्, किंतर्हि ? श्रुतदातृत्वादिना गुरुः परमोपकारी, तद्विनयप्रतिपत्तिनिमित्तमिति। 0 उद्देशे समुद्देशे सप्तविंशतिरनुज्ञापने। ज्ञानस्यैवानुयोग इति। उद्देशसमुद्देशानुज्ञानां श्रुतप्रत्ययानिसप्तवन्दनकानि, अनुयोग विधिश्च।