________________ [1] उपक्रम श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः // 241 // सूत्रम् 313-321 1.3.1 द्रव्यप्रमाणम्। 1.3.1.2 __ एतेणं रसमाणप्पमाणेणं किं पओयणं? एएणं रसमाणप्पमाणेणं वारग घडग करग किक्किरि दइय करोडि कुंडियसंसियाणं रसाणं रसमाणप्पमाणनिवित्तिलक्खणं भवइ ।सेतंरसमाणप्पमाणे / सेतंमाणे ॥सूत्रम् 321 // से किं तं पमाणे, इत्यादि। प्रमीयते परिच्छिद्यते धान्यद्रव्याद्यनेनेति प्रमाणमसतिप्रसृत्यादि। अथवेदं चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्वरूपतया प्रत्येकं प्रमीयते परिच्छिद्यते यत्तत्प्रमाणं यथोक्तमेव / यदिवा धान्यद्रव्यादेरेव प्रमिति:परिच्छेदः स्वरूपावगमः प्रमाणम् / अत्र पक्षेऽसतिप्रसृत्यादेस्तद्धेतुत्वात्प्रमाणता, तच्च प्रमाणं द्रव्यादिप्रमेयवशाच्चतुर्विधम्, तद्यथा, द्रव्यविषयं प्रमाणं द्रव्यप्रमाणमेवं क्षेत्रकालभावप्रमाणेष्वपि वाच्यम् / / 313 // तत्र द्रव्यप्रमाणं द्विविधम्, प्रदेशनिष्पन्नं विभागनिष्पन्न च॥३१४॥ तत्र प्रदेशा एकद्वित्र्याधणवस्तैर्निष्पन्नं प्रदेशनिष्पन्नम्। तत्रैकप्रदेशनिष्पन्नः परमाणुः द्विप्रदेशनिवृत्तो द्विप्रदेशिकः, प्रदेशनिष्पन्नम् / प्रदेशत्रयघटित स्त्रिप्रदेशिकः, एवं यावदनन्तैःप्रदेशैः सम्पन्नोऽनन्तप्रदेशिकः। नन्विदं परमाण्वादिकमनन्तप्रदेशिकस्कन्धपर्यन्तं विभागनिष्पन्नम् द्रव्यमेव, ततस्तस्य प्रमेयत्वात्प्रमाणतान युक्तेति चेन्नैवम् / प्रमेयस्यापि द्रव्यादेःप्रमाणतया रूढत्वात्तथाहि, प्रस्थकादिप्रमाणेन मित्वा पुजीकृतं धान्यादि द्रव्यमालोक्य लोके वक्तारो भवन्ति, प्रस्थकादिरयं पुज्जीकृतस्तिष्ठतीति, ततश्चैकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात्परमाण्वादिद्रव्यस्यापिकर्मसाधनप्रमाणशब्दवाच्यताऽदुष्टैव / करणसाधनपक्षे त्वेकद्वित्यादिप्रदेशनिष्पन्नत्वलक्षणं स्वरूपमेवमुख्यतया प्रमाणमुच्यते, द्रव्यं तु तत्स्वरूपयोगादुपचारतः / भावसाधनतायां तु प्रमितेः प्रमाणप्रेमेयाधीनत्वादुपचारादेव प्रमाणप्रमेययोः प्रमाणतावगन्तव्या। तदेव कर्मसाधनपक्षे परमाण्वादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करणभावसाधनपक्षयोस्तूपचारत इत्यदोषः / इदं च यथोत्तरमन्यान्यसङ्खयोपेतैः स्वगतैरेव (r) रसमाणेणं', इति मात्रम्। (r) क। (c) तत्स्थाने 'कलसिअ गागरि दइअ करोडिअ कुंडिअ संसिआणं....' इत्यादि वर्तते। 0 कुडियघोसंसियाणं -प्र० विभागनिष्पन्नस्य मानोन्मानावमानगणिमप्रतिमानादि पञ्चभेदाः। 1.3.1.2.1 मानप्रमाणम्। // 241 //