SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ शा०उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति| युतम्। | // 238 // 1.2 नाम। सूत्रम् 302-312 1.2.10 दशनाम। 1.2.10.10 1.2.10.10.4 पण्यमस्येति सौत्रिकः, शेषं प्रतीतम् / नवरं भाण्डविचारः कर्मास्येति भाण्डवैचारिकः। को(कौ)लालानि मृद्भाण्डानि पण्यमस्ये- [1] उपक्रमः। ति कौलालिकः। अत्र क्वापि तणहारए, इत्यादिपाठो दृश्यते, तत्र कश्चिदाह, नन्वत्र तद्धितप्रत्ययो न कश्चिदुपलभ्यते तथा छ वक्ष्यमाणेष्वपि तुन्नाए तंतुवाएइत्यादिषु नायं दृश्यते तत्किमित्येवम्भूतनाम्नामिहोपन्यासः? अत्रोच्यते, अस्मादेव सूत्रोपन्यासात्तृणानि हरति वहतीत्यादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थो द्रष्टव्यः / ततो यद्यपि साक्षात्तद्धितप्रत्ययो / नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशो न विरुध्यते / यदि तद्धितोत्पत्तिहेतुरर्थोऽस्ति तर्हि तद्धितोऽपि कस्मान्नोत्पद्यत इति चेत्? लोक इत्थमेव रूढत्वादिति ब्रूमः / अथवास्मादेवाद्यमुनिप्रणीतसूत्रज्ञापकादेवंजानीयाः, तद्धितप्रत्यया एवामी केचित्प्रतिपत्तव्या इति // 303 // अथ शिल्पतद्धितनामोच्यते, वस्त्रं शिल्पमस्येति वास्त्रिकः, तन्त्रीवादनं प्रमाणनाम। शिल्पमस्येति तान्त्रिकः, तुन्नाए तंतुवाए, इत्यादि प्रतीतम् / आक्षेपपरिहारा उक्तावेव / यच्चेह पूर्वं क्वचिद्वाचनाविशेषेऽप्रतीत भावप्रमाणं नाम दृश्यते तद्देशान्तररूढितोऽवसेयम्॥३०४ // अथ श्लाघातद्धितनामोच्यते, समणेइत्यादि। श्रमणादीनि नामानि श्लाघ्येष्वर्थेषु सामासिकादि साध्वादिषु रूढान्यतोऽस्मादेव सूत्रनिबन्धात्, श्लाघ्यार्थास्तद्धितास्तदुत्पत्तिहेतुभूतमर्थमात्रं वात्रापि प्रतिपत्तव्यम् // 305 // i. तद्धितनाम। तस्याष्टभेद संयोगतद्धितनाम राज्ञः स्वसु(श्वशु)र इत्यादि। अत्र सम्बन्धरूपः संयोगो गम्यते / अत्रापि चास्मादेव ज्ञापकात्तद्धितनामता, निरूपणम्। चित्रंच पूर्वगतं शब्दप्राभृतमप्रत्यक्षंच नोऽतः कथमिह भावनास्वरूपमस्मादृशैः सम्यगवगम्यते?॥३०६॥समीपतद्धितनाम iii. धातुजं iv. निरुक्तिकंच गिरिसमीपे नगरं गिरिनगरमत्र अदूरभवश्चे (पा० ४-२-७०)ति, अण् न भवति, गिरिनगरमित्येव प्रतीतत्वात् / विदिशाया अदूरभवं // 238 // नगरं वैदिशम्, अत्र त्वदूरभवश्चेति, अण् भवत्येव, इत्थमेव रूढत्वादिति // 307 // संयूथतद्धितनाम तरंगवतिकारए इत्यादि। ...भवश्वेण भवत्येव। ॐ का।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy