________________ क्रमः। पक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 221 // २नाम। सूत्रम् 262 1.2.2 नवनाम। गा०७८-८१ 1.2.9.7-8 करुणप्रशान्त 262 // ( // 129 // ) निद्दोस गाहा / निर्दोष हिंसादिदोषरहितं यन्मनस्तस्य यत्समाधानं विषयाद्यौत्सुक्यनिवृत्तिलक्षणं स्वास्थ्यं तस्मात्सम्भवो यस्य स तथा। प्रशान्तभावेनक्रोधादिपरित्यागेन योभवतीति गम्यते, स प्रशान्तो रसो ज्ञातव्यइति घटना।सचाविकारलक्षणोनिर्विकारताचिह्न इत्यर्थः॥८०॥ सब्भावेत्याधुदाहरणगाथा। प्रशान्तवदनं कश्चित्साधुमवलोक्य कश्चित्समीपस्थितंकञ्चिदाश्रित्य प्राह-हीति प्रशान्तभावातिशयद्योतकः, पश्य भो! यथा मुनेर्मुखकमलं शोभते, कथंभूतं? सद्भावतो न मातृस्थानतः, निर्विकारं विभूषाभ्रूक्षेपादिविकाररहितम्, उपशान्ता रूपालोकनाद्यौत्सुक्यत्यागतः, प्रशान्ता क्रोधादिदोषपरिहारतोऽत एव सौम्या दृष्टिर्यत्र तत्तथा। अस्मादेव च पीवरश्रीकमुपचितोपशमलक्ष्मीकमिति // 81 // साम्प्रतं नवानामपि रसानां संक्षेपतः कर स्वरूपं कथयन्नुपसंहरनाह- एए नव गाहा। एते नव काव्यरसा, अनन्तरोक्तगाथाभिर्यथोक्तप्रकारेणैव मुणितव्या ज्ञातव्याः। रसनिरूपणम् / कथम्भूता? अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिल (आवश्यकनि०८८१-८४, कल्पभा० २७८-८१)मित्यादयोऽत्रैव वक्ष्यमाणाये द्वात्रिंशत्सूत्रदोषास्तेषां विधिर्विरचनंतस्मात्समुत्पन्नाः / इदमुक्तं भवति, अलीकतालक्षणो यस्तावत्सूत्रदोष उक्तस्तेन रसोपसंहारम्। कश्चिद्रसो निष्पद्यते, यथा, तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः / प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी॥१॥ इत्येवंप्रकार। सूत्रमलीकतादोषदुष्टम् / रसश्चायमद्भुतः, ततोऽनेनालीकतालक्षणेन सूत्रदोषेणाद्भुतो रसो निष्पन्नः / तथा कश्चिद्रस उपघातलक्षणेन सूत्रदोषेण निर्वर्त्यते यथा, स एव प्राणिति प्राणी, प्रीतेन कुपितेन च। वित्तैर्विपक्षरक्तैश्च, प्रीणिता येन मार्गणाः॥१॥ // 1 // 8 // 221 // इत्यादिप्रकारं सूत्रं परोपघातलक्षणदोषदुष्टम् / वीररसश्चायम्, ततोऽनेनोपघातलक्षणेन सूत्रदोषेण वीररसोऽत्र निर्वृत्तः, (r) कव्वे' त्यधिकम्। गा०८२ |1.2.9.9 नवकाव्य