________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति [1] उपक्रमः। शा० उपक्रमः। 1.2 नाम। युतम्। सूत्रम् 262 1.2.9 // 219 // नवनाम गा०७६-७७ हास्यरस दर्शनाद विहिंसाच तल्लक्षणंयस्य स तथा / तत्र निर्वेद उद्वेगः, अविहिंसा जन्तुघातादिनिवृत्तिः / इह च शरीरादेरसारतामुपलभ्य हिंसादिपापेभ्यः कश्चिन्निवर्तत इत्यविहिंसापितल्लक्षणत्वेनोक्तेति // 74 // असुईत्याद्युदाहरणगाथा / इह कश्चिदुपलब्धशरीराद्यसारतास्वरूपः प्राह- कलिः, जघन्यः कालविशेष: कलहो वा / तत्र सर्वानिष्टहेतुत्वात्सर्वकलहमूलत्वाद्वा शरीरमेव कलि शरीरकलिस्तंमूर्छात्यागेन मुक्तिगमनकाले सर्वथात्यागेन वा धन्या:केचिद्विमुञ्चन्तीति सण्टङ्कः / कथम्भूतम्? अशुचिमलभृतानि निर्झराणीव निर्झराणिश्रोत्रादिविवराणि यस्य तं तथा। सर्वकालमपि स्वभावतो दुर्गन्धंतथा बहुमलकलुषमिति / एवं वाचनान्तराण्यपि भावनीयानि // 75 // अथ हास्यरसं हेतुलक्षणाभ्यामाह (8) रूव वय वेस भासाविवरीयविलंबणासमुप्पन्नो / हासो मणप्पहासोपकासलिंगोरसो होति॥७६॥ ___ हासो रसो जहा- पासुत्तमसीमंडियपडिबुद्धं देयर पलोअंती। ही! जह थणभरकंपणपणमियमज्झा हसतिसामा॥७७॥ रूव गाहा। रूप वयो वेषभाषाणां हास्योत्पादनार्थं वैपरीत्येन या विडम्बना निवर्तना, तत्समुत्पन्नो हास्यो रसो भवतीति संयोगः। तत्रपुरुषादेोषिदादिरूपकरणं रूपवैपरीत्यम्, तरुणादेवृद्धादिभावापादानं वयोवैपरीत्यम्, राजपुत्रादेर्वणिगादिवेषधारणं वेषवैपरीत्यम्, गुर्जरादेस्तु मध्यदेशादिभाषाभिधानं भाषावैपरीत्यम् / स च कथम्भूतः स्यादित्याह मणप्पहासोत्ति, मनःप्रहर्षकारी प्रकाशो नेत्रवक्त्रादिविकाशस्वरूपो लिङ्गयस्य स तथा। अथवा प्रकाशानि प्रकटान्युदरप्रकम्पनाट्टहासादीनि लिङ्गानि यस्येति स तथेति // 76 // पासुत्तमसीत्यादिनिदर्शनगाथा / इह कयाचिद्वध्वा प्रसुप्तो निजदेवरश्चसूर्या मषीमण्डनेन मण्डितः, प्रबुद्धं च तं सा हसति, तां च हसन्तीमुपलभ्य कश्चित्पार्श्ववर्तिनं कश्चिदामन्त्र्य प्राह-हीति कन्दतिशयद्योतकं 0 इमं प्रथमं पदं न वर्तते। 0 तत्तथा। 0 गा। व। 7 तं प्रबुद्धं च सा..। // 219 //