SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 215 // १.२नाम। सूत्रम् 262 1.2.9 नवनाम। गा०६६-६७ 1.2.9.2 शृङ्गाररसनिरूपणम्। पराक्रमचिह्नो वीरो रसो भवति। इदमुक्तं भवति, दाने दत्ते यदानुशयो गर्वः, पश्चात्तापो वा तं न करोति, तपसि च कृते धृति [1] उपक्रमः। करोति नार्तध्यानम्, शत्रुविनाशे च पराक्रमते, न तु वैक्लव्यमवलम्बते, तदा एतैर्लिङ्गैर्जायतेऽयं प्राणी वीररसे वर्तते। इत्येवमन्यत्रापि भावना कार्येति ॥६४॥उदाहरणनिदर्शनार्थमाह- वीरो रसो यथेत्युपदर्शनार्थमेतत्सो नामगाहा पाठसिद्धा। नवरं वीररसवत्पुरुषचेष्टिप्रतिपादनादेवंप्रकारेषु काव्येषु वीररसः प्रतिपत्तव्य इति भावार्थः / अपरं चेहोत्तमपुरुषजेतव्यकामक्रोधादिभावशत्रुजयेनैव वीररसोदाहरणं मोक्षाधिकारिणि प्रस्तुतशास्त्र इतरजनसाध्यसंसारकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तव्यमित्येवमन्यत्रापि भावार्थोऽवगन्तव्य इति ॥६५॥शृङ्गाररसं लक्षणत: प्राह (3) सिंगारो नाम रसोरतिसंजोगाभिलाससंजणणो।मंडण विलास बिब्बोय हास लीला रमणलिंगो॥६६॥ सिंगारो रसो जहा-महुरं विलास ललियं हिययुम्मादणकरंजुवाणाणं / सामा सदुद्दामंदाएती मेहलादामं // 67 // सिंगारो गाहा। शृङ्गारो नाम रसः, किंविशिष्ट इत्याह- रतीत्यादि।रतिशब्देनेह रतिकारणानि सुरतव्यापाराङ्गानि ललनादीनि गृह्यन्ते, तैः सार्द्ध संयोगाभिलाषसंजनकः, तस्य तत्कार्यत्वादेव / तथा मण्डन विलास विब्बोक हास्य लीला रमणानि लिङ्गयस्य स तथा / तत्र मण्डनं कङ्कणादिभिः, विलास: कामगर्भो रम्यो नयनादिविभ्रमः, विब्बोयत्ति देशीपदमङ्गजविकारार्थे, हास्य प्रतीतम्, लीलासकामगमन भाषितादिरमणीयचेष्टा, रमणंक्रीडनमिति // 66 // उदाहरणमाह- सिंगारो, इत्यादि। महुरगाहा।। श्यामास्त्री, मेखलादामरसनासूत्रम्, दर्शयति, प्रकटयतीत्यर्थः / कथम्भूतमित्याह- रणन्मणिकिङ्किणीस्वरमाधुर्यान्मधुरम्, तथा विलासैः सकामैश्चेष्टाविशेषैललितं मनोहारि, तथा शब्दोद्दामं किङ्किणीस्वनमुखरम्, किमिति तत्प्रकटयतीत्याह, यतो ®लक्षण तस्त्वाह / ®सं / 0 विब्बो। 0 महुरविलास सललिअं।७र्थम् / 3 // 215 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy