________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि |श्रीहेमचन्द्र सूरि वृत्तियुतम्। // 196 // |1.2 नाम। सूत्रम् 254-255 8 अयं च द्विकयोगविवक्षामात्रत एव सम्पद्यते, न पुनरीदृशोभङ्गः क्वचिज्जीवे सम्भवति / तथा हि, यस्यौदयिकी मनुष्यगतिरौपशमिकाः कषाया भवन्ति तस्य क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वं कस्यचित्क्षायिकं सम्यक्त्वमित्येतदपि सम्भवति, तत्कथमस्य केवलस्य सम्भव:?, एवमेतद्व्याख्यानुसारेण शेषा अपिव्याख्येयाः। केवलं क्षायिकपारिणामिकभावद्वयनिष्पन्नं नवमभङ्गं विहायापरेऽसम्भविनो द्रष्टव्याः। नवमस्तु सिद्धस्य सम्भवति, तथाहि, क्षायिके सम्यक्त्वज्ञाने पारिणामिकं तु जीवत्वमित्येतदेव भावद्वयं तस्यास्ति नापरः। तस्मादयमेकः सिद्धस्य सम्भवति, शेषास्तु नव द्विकयोगाः प्ररूपणामात्रमिति स्थितम् / अन्येषां हि संसारिजीवानामौदयिकी गतिः क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येतद्भावत्रयं जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकयोगसम्भवः ? इति भावः // 253 // त्रिकयोगान्निर्दिदिक्षुराह, तत्थ णंजे ते दस तिगसंजोगा तेणं इमे, अत्थि णामे उदइए उवसमिएखयनिष्पन्ने 1 अस्थि णामे उदइए उवसमिए खओवसूमनिप्पन्ने 2 अत्थि णामे उदइए उवसमिए पारिणामियनिप्पन्ने 3 अस्थि णामे उदइए खइए खओवसमनिप्प्पन्ने 4 अत्थि णामे उदए खइए पारिणामियनिप्पन्ने 5 अस्थिणामे उदइएखयोवसमिए पारिणामियनिप्पन्ने 6 अत्थिणामे उवसमिए खइएखओवसमनिप्पन्ने 7 अत्थि णामे उवसमिए खइए पारिणामियनिप्पन्ने 8 अत्थि णामे उवसमिए खओवसमिए पारिणामियनिप्पन्ने 9 अत्थि णामे खइए खओवसमिए पारिणामियनिप्पन्ने 10 // सूत्रम् 254 // कतरे से णामे उदइएउवसमिए खयनिप्पन्ने? उदएत्ति मणूसे, उवसंता कसाया, खइयं सम्मत्तं, एसणं से णामे उदइए उवसमिए खयनिप्पन्ने 1, कतरे से णामे उदइए उवसमिए खयोवसमियनिप्पन्ने?, उदएत्ति मणूसे उवसंता कसाया खयोवसमियाइं इंदियाई, 0 पन्ने' स्थाने 'फण्णे' इति सूत्रे सर्वत्र ज्ञातव्यम् / ॐ उदएत्ति मणूसे' इति स्थाने 'उदइएत्ति मणुस्से'। षड्नाम। 1.2.6.6 सान्निपातिकभावस्य त्रिकसंयोगिकदशभेदनिरूपणम्। // 196 //