SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 173 // 1.2 नाम। सूत्रम् 210-216 1.2.2 द्विनाम। सूत्रम् 217 तदेवं यदस्ति वस्तु तत्सर्वमेकाक्षरेण वा नाम्नाभिधीयतेऽनेकाक्षरेण वाऽतोऽनेन नामद्वयेन विवक्षितस्य सर्वस्यापि वस्तुजात- [1] उपक्रमः। स्याभिधानाविनामैतदुच्यते। द्विरूपं सत्सर्वस्य नाम द्विनाम, द्वयोर्वा नाम्नो: समाहारो द्विनाममिति // 210-12 // एतदेव प्रकारान्तरेणाह, अहवा दुनामे, इत्यादि। जीवस्य नाम जीवनामाजीवस्य नामाजीवनाम। अत्रापि यदस्ति तेन जीवनाम्नाऽजीवनाम्ना वा भवितव्यमितिजीवाजीवनामभ्यां विवक्षितसर्ववस्तुसङ्ग्रहोभावनीयः,शेषंसुगमम्॥२१३-१५॥पुनरेतदेवान्यथा प्राह, अहवा दुनामे, इत्यादि। द्रव्यमित्यविशेषनाम जीवेऽजीवे च सर्वत्र सद्भावात् / जीवद्रव्यमजीवद्रव्यमिति च विशेषनाम। एकस्य जीव एवान्यस्य त्वजीव एव सद्भावादिति / ततः पुनरुत्तरापेक्षया जीवद्रव्यमित्यविशेषनाम, नारकस्तिर्यङित्यादि तु विशेषनाम / पुनरप्युत्तरापेक्षया नारकादिकमविशेषनाम रत्नप्रभायां भवो रात्नप्रभइत्यादि तु विशेषनाम / एवं पूर्वं पूर्वमविशेषनामोत्तरोत्तरं विशेषनाम सर्वत्र भावनीयम्, शेषं सुगमम् / नवरं सम्मूर्च्छन्ति तथाविधकर्मोदयाद्गर्भमन्तरेणैवोत्पद्यन्त इति / |त्रिनाम। सम्मूच्छिमाः। गर्भे व्युत्क्रान्तिः, उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः / उरसा भुजाभ्यां च परिसर्पन्ति गच्छन्तीति विषधर . गोधा नकुलादयःसामान्येन परिसर्पाः। विशेषस्तूरसा परिसर्पन्तीत्युरःपसिर्पाः सर्पादय एव / भुजाभ्यां परिसर्पन्तीति भुजपरि- बझेदाः। सर्पा गोधानकुलादय एव, शेषं सुखोन्नेयम् / तदेवमुक्ताः सामान्यविशेषनामभ्यां जीवद्रव्यस्य सम्भविनो भेदाः। साम्प्रतं गुणनाम्नश्च प्रागुद्दिष्टमजीवद्रव्यमपि भेदतस्तथैवोदाहतुमाह- अविसेसिए अजीवदव्वे, इत्यादिगतार्थम् / तदेवं यदस्ति वस्तु तत्सर्वसामान्यनाम्ना विशेषनाम्ना वाभिधीयेतैवमन्यत्रापि द्विनामत्वं भावनीयम्, से तंदुनामेत्ति निगमनम् // 216 // से किंतं तिनामे? 2 तिविहे पण्णत्ते तंजहा, दव्वणामे 1 गुणणामे 2 पज्जवणामे य ३॥सूत्रम् 217 // Oद्विनामोच्यते / ०'तु' इत्यधिकम् / 0 यते, एवं / 1.2.3.1 द्रव्यनाम्नः 1.2.3.2 पञ्चभेदाः। // 173 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy