________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 139 // 1.1 आनुपूर्वी। सूत्रम् 157-158 दिनभःप्रदेशसमुदायास्तावद्व्याणि, समुदायारम्भकास्तु प्रदेशाः। अनानुपूर्त्यां त्वेकैकप्रदेशावगाहिद्रव्योपलक्षिताः सकलनभःप्रदेशा: प्रत्येकं द्रव्याणि, प्रदेशास्तु न सम्भवन्ति, एकैकप्रदेशद्रव्ये हि प्रदेशान्तरायोगात् / अवक्तव्यकेषु तु यावन्तो लोके द्विकयोगा:संभवन्ति तावन्तस्ते प्रत्येकं द्रव्याणि तदारम्भकास्तु प्रदेशा इति ।शेषा त्वत्र व्याख्या द्रव्यानुपूर्वीवत्कर्तव्येति। नवरं सव्वत्थोवाइंणेगमववहाराणं अवत्तव्वगदव्वाइमित्याद्यत्राह, ननु यदा पूर्वोक्तयुक्त्यैकैको नभःप्रदेशोऽनेकेषु द्विकसंयोगेषूपयुज्यते तदानानुपूर्वीद्रव्येभ्योऽवक्तव्यकद्रव्याणामेव बाहुल्यमवगम्यते, यतः पूर्वोक्तायामपिपञ्चप्रदेशनभ:कल्पनायामवक्तव्यकद्रव्याणामेवाष्टसङ्खयोपेतानां पञ्चसङ्खयेभ्योऽनानुपूर्वीद्रव्येभ्यो बाहुल्यं दृष्टं तत्कथमत्र व्यत्यय: प्रतिपाद्यते? सत्यम्, अस्त्येतत् केवलंलोकमध्ये, लोकपर्यन्तवर्तिनिष्कुटगतास्तु ये कण्टकाकृतयो विश्रेण्या निर्गता एकाकिनः प्रदेशास्ते विश्रेणिव्यवस्थितत्वादवक्तव्यकत्वायोग्या इत्यनानुपूर्वीसङ्ख्यायामेवान्तर्भवन्ति, अतो लोकमध्यगतां निष्कुटगतांच प्रस्तुतद्रव्यसङ्ख्यां मीलयित्वा यदा केवली चिन्तयति तदावक्तव्यकद्रव्याण्येव स्तोकानि, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकतां प्रतिपद्यन्ते, अत्र निष्कुटस्थापना , अत्र विश्रेणिलिखितौ द्वावक्तव्यकायोग्यौ द्रष्टव्याविति / एवम्भूताश्च किलामी सर्वतोलोकपर्यन्तेषु बहवःसन्तीत्यनानुपूर्वीणांबाहुल्यमित्यलं विस्तरेण / आनुपूर्वीद्रव्याणांतु तेभ्योऽसङ्ख्यातगुणत्वं भावितमेव, शेषं द्रव्यानुपूर्व्यनुसारेण भावनीयम् / नवरमुभयार्थताविचार आनुपूर्वीद्रव्याणि स्वद्रव्येभ्यः प्रदेशार्थतयाऽसङ्ख्येयगुणानि कथम्? एकैकस्य तावद्व्यस्य त्र्यादिभिरसङ्खयेयान्तैर्नभ:प्रदेशैरारब्धत्वान्नभःप्रदेशानां च समुदितानामप्यसङ्खयेयत्वादिति। सेत मित्यादि निगमनद्वयम् // 158 // उक्ता नैगमव्यवहारमतेनानौपनिधिकी क्षेत्रानुपूर्व्यथ तामेव सङ्ग्रहमतेन (c) तावन्ति प्रत्येक... / (c) 444'- इत्याकृतिः। ॐ सर्वलोक' इति वर्तते / क्षेत्रानुपूर्वी। नै० व्य० अनौ० क्षेत्रानु० १.१.४अ.२.५ अनुगमः। |१.१.४अ.२.५.८ भावद्वारम्। |१.१.४अ.२.५.९/ अल्पबहुत्वद्वारम्।