________________ [[1] उपक्रमः। शा० उपक्रमः। | श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 117 // 1.1 आनुपूर्वी। अणुगमे, से तं संगहस्स अणोवणिहिया दव्वाणुपुव्वी, से तंअणोवणिहिया दव्वाणुपुव्वी। सूत्रम् 130 / / ( // 95 // ) से किं तं अणुगमेत्ति / अत्रोत्तरम्- अणुगमे अट्ठविहे पन्नत्ते त्ति, पूर्वं नवविध उक्तोऽत्र त्वष्टविध एवाल्पबहुत्वद्वाराभावात्, तदेवाष्टविधत्वं दर्शयति तद्यथेत्युपदर्शनार्थः / संतपयगाहा, इयं पूर्वं व्याख्यातैव, नवरमप्पाबहु नत्थित्ति, सङ्ग्रहस्य सामान्यवादित्वात्सामान्यस्य च सर्वत्रैकत्वादल्पबहुत्वविचारोऽत्र न सम्भवतीत्यर्थः॥१२२ // तत्र सत्पदप्ररूपणताभिधानार्थमाह, संगहस्सेत्यादि। ननुसङ्ग्रहविचारे प्रक्रान्त आनुपूर्वीद्रव्याणि सन्तीत्यनुपपन्नम्, आनुपूर्वीसामान्यस्यैवैकस्य तेनास्तित्वाभ्युपगमात् / सत्यम्, मुख्यरूपतया सामान्यमेवास्ति, गुणभूतं च व्यवहारमात्रनिबन्धनं द्रव्यबाहुल्यमप्यसौ वदतीत्यदोषः, शेषभावना पूर्ववदिति // 123 // द्रव्यप्रमाणद्वारे यदुक्तम्, नियमा एगो रासित्ति, अत्राह, ननु यदि सङ्ख्येयादिस्वरूपाण्येतानि न भवन्ति तर्बेको राशिरित्यपि नोपपद्यते, द्रव्यबाहुल्ये सति तस्योपपद्यमानत्वाद्वीह्यादिराशिषु तथैव दर्शनात् / सत्यम्, किन्त्वेको राशिरिति वदतः कोऽभिप्रायः?, बहूनामपि तेषामानुपूर्वीत्वसामान्येनैकेन क्रोडीकृतत्वादेकत्वमेव, किंच, यथा विशिष्टैकपरिणामपरिणतेस्कन्धे तदारम्भकावयवानांबाहुल्येऽप्येकतैव मुख्या, तद्वदत्रानुपूर्वीद्रव्यबाहुल्येऽपि तत्सामान्यस्यैकरूपत्वादेकत्वमेव मुख्यमसौ नयः प्रतिपद्यते, तद्वशेनैव तेषामानुपूर्वीत्वसिद्धेः, अन्यथा तदभावप्रसङ्गात्तस्मान्मुख्यस्यैकत्वस्यानेन कक्षीकृतत्वात्सङ्खयेयरूपतादिनिषेधः / गुणभूतानि द्रव्याण्याश्रित्य राशिभावोऽपि न विरुध्यते, एवमन्यत्रापि भावनीयमित्यलं प्रपञ्चेन // 124 // क्षेत्रद्वारे नियमा सव्वलोए होजत्ति, आनुपूर्वीसामान्यस्यैकत्वात्सर्वलोकव्यापित्वाञ्चेति भावनीयम्, 7122-130 सूत्राणां स्थान एकमेव सूत्राङ्कम् 95 अस्ति / 7 इति / 0 (तु), इत्यधिकम् / आनुपूर्वीसामान्यस्यैकरूपत्वादेकत्वमेव मुख्यमसौ नयः प्रतिपद्यते, तद्वशेनैव तेषामानुपूर्वीद्वारमपि (प्र.) इदमेकत्वबोधनाय टीप्पितमभविष्यदिति लक्षयित्वोपेक्षितम् / सूत्रम् 122-130 १.१.३.३व्य० द्रव्यानुपूर्ध्या १.१.३.३.२आ सङ्गह० अनौ० द्रव्यानु० १.१.३.३.२आ. 5 अनुगमः। सत्पदाद्यष्टद्वाराणि। // 117 //