________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 108 // परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेज्जपएसियाणं अणंतपएसियाण य खंधाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा अणंतपएसिया खंधा, परमाणुपोग्गला अणंतगुणा, संखेजपएसिया खंधा संखेजगुणा, असंखेज्ज- पएसिया खंधा असंखेज्जगुणा (प्रज्ञापना सूत्रे तृतीयपदे सू० 330) तदत्र सूत्रे पुद्गलजाते: सर्वस्या अपि सकाशादसङ्ख्यातप्रदेशिकाः स्कन्धा असङ्ख्यातगुणा उक्ताः, ते चानुपूर्व्यामन्तर्भवन्त्यतस्तदपेक्षयानुपूर्वीद्रव्याणि शेषात्समस्तादपि द्रव्यादसङ्खयातगुणानि, किं पुनरनानुपूर्व्यवक्तव्यकद्रव्यमात्रात्ततो यथोक्तमेव व्याख्या कर्तव्यमित्यलं विस्तरेण ।अणाणुपुव्वीदव्वाइमित्यादि / इहानानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणांयथाऽसङ्ख्याततम एव भागे भवन्ति, नशेषभागेषु, तथानन्तरोक्तन्यायादेव भावनीयमिति (7) // 112 // उक्तं भागद्वारं साम्प्रतं भावद्वारमाह (1) णेगमववहाराणं आणुपुव्वीदव्वाई कयरंमि भावे होजा? किं उदइए भावे होजा? उवसमिए भावे होज्जा? खाइए भावे होजा? खाओवसमिए भावे होजा? पारिणामिए भावे होजा? संनिवाइए भावे होजा?, णियमा साईपारिणामिए भावे होजा, (2) अणाणुपुव्वीदव्वाणि अवत्तव्वयदव्वाणि य एवं चेव भाणियव्वाणि ॥सूत्रम् 113 // ( // 88 // ) णेगमववहाराणमित्यादि प्रश्नः / अत्र चौदयिकादिभावनां शब्दार्थो भावार्थश्च विस्तरेणोपरिष्टात्स्वस्थान एव वक्ष्यते। अत्र निर्वचनसूत्रे नियमा साइपारिणामिए भावे होज त्ति, परिणमनम्, द्रव्यस्य तेन तेन रूपेण वर्तनं भवनं परिणामः / स एव - परमाणुपुद्गलानां सङ्ख्येयप्रदेशिकानामसङ्ख्येयप्रदेशिकानामनन्तप्रदेशिकानां च स्कन्धानां के केभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा?, गौतम! सर्वस्तोका अनन्तप्रदेशिका: स्कन्धाः परमाणुपुद्गला अनन्तगुणा: सङ्ख्येयप्रदेशिका: स्कन्धा: सङ्ख्येयगुणाः असङ्ख्येयप्रदेशिका: स्कन्धा असङ्ख्येयगुणाः। ॐ 'कतरंमि होजा', इति वर्तते। रुख। 0ग। [1] उपक्रमः। शा० उपक्रमः। शा 1.1 आनुपूर्वी। सूत्रम् 113 1.1.3.3 व्य 0 द्रव्यानुपूर्त्या नै० व्य० २अ. अनौ० द्रव्यानु०॥ १.१.३.३.२अ.५] अनुगमः। १.१.३.३.२अ.५.८ भावद्वारम्। // 108 //