________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 106 // चरितार्थः पुद्गलसंयोगासङ्ख्येयकालनियमः, विवक्षितपरमाणुद्रव्यस्य तु वियोगोमा भूदपीति / नैतदेवम्, यस्यान्येन संयोगो जातस्तस्यासङ्खयेयकालाद्वियोगश्चिन्त्यते, यदि च परमाण्वाश्रयःस्कन्धो वियुज्यते तर्हि परमाणो: किमायातम्?, तस्यान्यसंयोगस्य तदवस्थत्वात्, तस्मादणुत्वेनासौ संयुक्तोऽसङ्घयेयकालादणुत्वेनैव वियोजनीय इति यथोक्त एवान्तरकालो न त्वनन्त इति / कथं पुनरणुत्वेनैव तस्य वियोगश्चिन्तनीय इति ज्ञायत इति चेत्, सूत्रप्रामाण्यात्, प्रस्तुतसूत्रे व्याख्याप्रज्ञप्त्यादिषु च परमाणोः पुनः परमाणुभवनेऽसङ्खयेयरूपस्यैवान्तरकालस्योक्तत्वादित्यलं विस्तरेण / नाणादव्वाइं पडुच्चेत्यादि पूर्व-8 वद्भावनीयम् / अवक्तव्यकद्रव्याणामन्तरचिन्तायामेगं दव्वं पडुच्चेत्यादि, अत्र भावना, इह कश्चिट्ठिप्रदेशिकः स्कन्धो विघटितः, स्वतन्त्रं परमाणुद्वयं जातम्, समयं चैकं तथास्थित्वा पुनस्ताभ्यामेव परमाणुभ्यां द्विप्रदेशिकः स्कन्धो निष्पन्नः। अथवा विघटित एव द्विप्रदेशिकः स्कन्धोऽन्येन परमाण्वादिना संयुज्य समयादूर्ध्वं पुनस्तथैव वियुक्त इत्यवक्तव्यकस्य पुनरप्यवक्तव्यकभवन उभयथापि समयोऽन्तरे लभ्यते, उक्कोसेणं अणंतं कालंइति, कथम्?, अत्रोच्यते, अवक्तव्यकद्रव्यं किमपि विघटितं विशकलितपरमाणुद्वयं जातम्, तच्चानन्तै: परमाणुभिरनन्तै_णुकस्कन्धैरनन्तैस्त्र्यणुकस्कन्धैर्यावदनन्तैरनन्ताणुकस्कन्धैः। सह क्रमेण संयोगमासाद्योत्कृष्टान्तराधिकारच प्रतिस्थानमसकृदुत्कृष्टां संयोगस्थितिमनुभूय कालस्यानन्तत्वाद्यदा पुनरपि। तथैव व्यणुकस्कन्धतया संयुज्यते तदाऽवक्तव्यकैकद्रव्यस्य पुनस्तथाभवनेऽनन्तोऽन्तरकालः प्राप्यते। नानाद्रव्यपक्षभावना लोके सर्वदैव तद्भावात्पूर्ववद्वक्तव्या (6) // 111 // उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारं निर्दिदिक्षुराह (1) णेगमववहाराणं आणुपुव्वीदव्वाई सेसदव्वाणं कइभागे होजा? किं संखेजइभागे होजा? असंखेनइभागे होजा? संखेजेसु ७'इति ज्ञायते' पदे न स्तः। [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 111 1.1.3.3 व्य० द्रव्यानुपूल नै० व्य० २अ. अनौ० द्रव्यानु। १.१.३.३.२अ.५ अनुगमः। १.१.३.३.२अ.५.६ अन्तरद्वारम्। सूत्रम् 112 १.१.३.३.२अ.५.७ भागद्वारम् / // 106 //