________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 102 // कल्प्यते तर्हि तस्य षट्स्वरूपापत्त्यैकत्वं विशीर्यते, उक्तंच, दिग्भागभेदो यस्यास्ति, तस्यैकत्वंन युज्यते (विंशतिका विज्ञप्तिमात्रता सिद्धिः 14) इति। अत्र प्रतिविधीयते, इह परमाणुद्रव्यम्, आदिमध्यान्तादिविभागरहितं निरंशमेकस्वरूपमिष्यतेऽतःसांशवस्तुसम्भवित्वात्परोक्तं विकल्पद्वयं निरास्पदमेव / अथानभ्युपगम्यमानापि परमाणो:सांशतानन्तरोक्तविकल्पबलेनापाद्यते, ननुभवन्तोऽपि तर्हि प्रष्टव्याः, क्वचिद्विज्ञानसन्ताने विवक्षितः कश्चिद्विज्ञानलक्षणक्षणः स्वजनकपूर्वक्षणस्य कार्यं स्वजन्योत्तरक्षणस्य कारणमित्यत्र सौगतानां तावदविप्रतिपत्तिः। तत्रेहापि विचार्यते, किमसौ येन स्वरूपेण पूर्वक्षणस्य कार्यं तेनैवोत्तरक्षणस्य कारणमुत स्वरूपान्तरेण? यद्याद्यः पक्षस्तर्हि यथा पूर्वापेक्षयासौ कार्यं तथोत्तरापेक्षयापि स्याद्, यथा वोत्तरापेक्षया कारणं तथा पूर्वापेक्षयापि स्यादेकस्वरूपत्वात्तस्येति / अथ द्वितीयः पक्षस्तर्हि तस्य सांशत्वप्रसङ्गोऽत्रापि दुर्वारः स्याद् / अथ निरंश एवसौज्ञानलक्षणक्षणोऽकार्यकारणरूप: तत्तद्वस्तुव्यापृतत्वात्तथा तथा व्यपदिश्यते, न पुनस्तस्यानेकस्वरूपत्वमस्ति, नन्वस्माकमपि नेदमुत्तरमतिदुर्लभं स्याद्यतो द्रव्यतया निरंश एव परमाणुस्तथाविधाचिन्त्यपरिणामत्वादिषट्वेन सह नैरन्तर्येणावस्थितत्वात्तत्स्पर्शक उच्यते, न पुनस्तत्रांशैः काचित्स्पर्शना समस्तीत्यत्र बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरेषु चर्चितत्वादित्यलं विस्तरेण (4) // 109 // उक्तं स्पर्शनाद्वारमिदानीं कालद्वारं बिभणिषुराह (1) णेगमववहाराणं आणुपुव्वीदव्वाई कालओ केवचिर होंति?, एगं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं असंखेनं कालं, नाणादव्वाई पडुच्चणियमा सव्वद्धा, (2) एवं दोन्निवि / / सूत्रम् 110 // // 85 // ) / छन्त्या। (तत्रापि)इत्यधिकम् ।®त्तस्य स्प..10चिरं / एवं दोन्निवि', स्थाने अणाणुपुव्वीदव्वाइं अवत्तव्वगदव्वाइंच एवं चेव भाणिअव्वाई' इति वर्तते। [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 109 1.1.3.3 व्य० द्रव्यानुपूा नै० व्य० अ.अनौ० द्रव्यानु०॥ १.१.३.३.२अ.५ अनुगमः १.१.३.३.२अ.५.४ स्पर्शनाद्वारम्। स्पर्शनाद्वारम्। सौगतप्रेरणं प्रतिविधानद्या सूत्रम् 110 १.१.३.३.२अ.५.५ कालद्वारम्। // 102 //