SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् | // 437 // करणत्रयेणेत्यर्थः तत्रैव तस्मिन्नेव संयमस्थानावसरे धीरो बुद्धिमान् प्रतिसंहरेत् प्रतिसंहरति य आत्मानम्, सम्यग् विधि प्रतिपद्यत द्वितीया इत्यर्थः, निदर्शनमाह- आकीर्णो जवादिभिर्गुणैः, जात्योऽश्व इति गम्यते असाधारणविशेषणात्, तच्चेदं- क्षिप्रमिव खलिन विविक्तचर्या, चूलिका, शीघ्रं कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगत्यागेन खलिनकल्प सूत्रम् 10-16 सम्यग्विधिम्, एतावताउंशेन दृष्टान्त इति सूत्रार्थः॥ 14 // यः पूर्वरात्रेत्याद्यधिकारोपसंहारायाह- यस्य साधोः ईदृशाः विहारचर्या विशेषोऽस्वहितालोचनप्रवृत्तिरूपा योगा मनोवाक्कायव्यापारा जितेन्द्रियस्य वशीकृतस्पर्शनादीन्द्रियकलापस्य धृतिमतः संयमेसधृतिकस्य सीदनसत्पुरुषस्य प्रमादजयान्महापुरुषस्य नित्यं सर्वकालं सामायिकप्रतिपत्तेरारभ्यामरणान्तं तमाहुलॊके प्रतिबुद्धजीविनं तमेवंभूतं गुणोपायःसाधुमाहुः- अभिदधति विद्वांसः लोके प्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्रारहितजीवनशीलम्, स एवंगुणयुक्तः सन् शास्त्रोपसंहार उपदेशजीवति संयमजीवितेन कुशलाभिसंधिभावात् सर्वथा संयमप्रधानेन जीवितेनेति सूत्रार्थः॥ 15 // शास्त्रमुपसंहरन्नुपदेश- सर्वस्वञ्च। सर्वस्वमाह-आत्मा खल्वि तिखलुशब्दो विशेषणार्थः,शक्तौ सत्यांपरोऽपिसततं सर्वकालंरक्षितव्यः पालनीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह-सर्वेन्द्रियैः स्पर्शनादिभिः सुसमाहितेन निवृत्तविषयव्यापारेणेत्यर्थः, अरक्षणरक्षणयोः फलमाहअरक्षितः सन् जातिपन्थानं जन्ममार्ग संसारमुपैति-सामीप्येन गच्छति।सुरक्षितः पुनर्यथागममप्रमादेन सर्वदुःखेभ्यःशारीरमानसेभ्यो विमुच्यते विविधं- अनेकैः प्रकारैरपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते / इति ब्रवीमीति पूर्ववदिति सूत्रार्थः॥ // इति सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्ती द्वितीया विविक्तचर्याचूलिका समाप्ता। 16 // // 437 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy