________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 380 // उदाहरण कयोमहदन्तरमित्येतदाह- आसि'त्ति सूत्रम्, आशीविषश्चापि सर्पोऽपि परं सुरुष्टः सुक्रुद्ध सन् किं जीवितनाशात् मृत्योः परं नवममध्ययनं कुर्यात्?, न किंचिदपीत्यर्थः, आचार्यपादाः पुनः अप्रसन्ना हीलनयाऽननुग्रहे प्रवृत्ताः, किं कुर्वन्तीत्याह- अबोधिं निमित्तहेतुत्वेन विनयसमाधिः, प्रथमोद्देशकः मिथ्यात्वसंहतिम्, तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमत आशातनया गुरोर्नास्ति मोक्ष इति, अबोधिसंतानानुबन्धेनानन्त सूत्रम् संसारिकत्वादिति सूत्रार्थः॥५॥किंच-'जो पावगंति सूत्रम्, यः पावकं अग्निं ज्वलितं सन्तं अपक्रामेद् अवष्टभ्य तिष्ठति, 2-10 आशीविषं वापि हि भुजङ्गमं वापि हि कोपयेत् रोषं ग्राहयेत्, यो वा विष खादति जीवितार्थी जीवितुकामः, एषोपमा अपायप्राप्ति पूर्वकं दोषप्रत्येतदुपमानम्, आशातनया कृतया गुरूणां संबन्धिन्या तद्वदपायो भवतीति सूत्रार्थः // 6 // अत्र विशेषमाह- सिआ हुत्ति प्ररूपणम् / सूत्रम्, स्यात् कदाचिन्मन्त्रादिप्रतिबन्धादसौ पावकः अग्निः न दहेत् न भस्मसात्कुर्यात्, आशीविषो वा भुजङ्गो वा कुपितो न भक्षयेत् न खादयेत्, तथा स्यात् कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलं अतिरौद्रं न मारयेत् न प्राणांस्त्याजयेत्, एवमेतत्कदाचिद्भवति न चापि मोक्षो गुरुहीलनया गुरोराशातनया कृतया भवतीति सूत्रार्थः // 7 // किंच-'जो पव्वयंति| सूत्रम्, यः पर्वतं शिरसा उत्तमाङ्गेन भेत्तुमिच्छेत्, सुप्तं वा सिंह गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति शक्त्यग्रे प्रहरणविशेषाने। प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरूणामिति पूर्ववदेवेति सूत्रार्थः॥ 8 // अत्र विशेषमाह-'सिआ हु'त्ति सूत्रम्, स्यात् कदाचित्कश्चिद्वासुदेवादिः प्रभावातिशयाच्छिरसा गिरिमपि पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात्सिंहः कुपितो न भक्षयेत्, स्याद्देवतानुग्रहादेर्न भिन्द्याद्वा शक्त्यग्रं प्रहारे दत्तेऽपि, एवमेतत्कदाचिद्भवति, न चापि मोक्षो गुरुहीलनया गुरोराशातनया भवतीति // 30 // सूत्रार्थः॥ 9 // एवं पावकाद्याशातनाया गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाह-'आयरिअ'त्ति सूत्रम्, आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्धं पूर्ववत्, यस्मादेवं तस्माद् अनाबाधसुखाभिकाङ्क्षी मोक्षसुखाभिलाषी साधुः गुरुप्रसादाभिमुखः / 8388