________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 303 // रत्नानि चतुर्विंशतिः, सुवर्णत्रपुताम्ररजतलोहानि सीसकहिरण्यपाषाणवज्रमणिमौक्तिकप्रवालानि। शङ्खतिनिशागरुचन्दनानि षष्ठमध्ययनं वस्त्रामिलानि काष्ठानि तथा चर्मदन्तवाला गन्धा द्रव्यौषधानि च / एतान्यपि प्रायो लौकिकसिद्धान्येव नवरं रजतं-रूप्यं हिरण्यं- महाचारकथा, रूपकादि पाषाणा- विजातीयरत्नानि मणयो- जात्यानि। तिनिशो- वृक्षविशेषः अमिलानि- ऊर्णावस्त्राणि काष्ठानि नियुक्तिः 256-258 श्रीपादिफलकादीनि चर्माणि सिंहादीनां दन्ता गजादीनां वालाः चमर्यादीनां द्रव्यौषधानि- पिप्पल्यादीनीति गाथा- धान्यरत्नद्वयार्थः / / 254-255 // उक्तो रत्नविभागः, स्थावरादिविभागमाह स्थावराद्यर्थाः। नि०- भूमी घरा य तरुगण तिविहं पुण थावरं मुणेअव्वं / चक्कारबद्धमाणुस दुविहं पुण होइ दुपयं तु॥२५६॥ भूमिर्गृहाणि तरुगणाश्च, चशब्दस्य व्यवहित उपन्यासः, त्रिविधं पुनरोघतः स्थावरं मन्तव्यम्, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि?, स्वगतान् भेदान्, तद्यथा- भूमिः क्षेत्रम्, तच्च त्रिधा-सेतु केतु सेतुकेतु च, गृहाणि प्रासादाः, तेऽपि त्रिविधाःखातोत्छ्रितोभयरूपाः, तरुगणा नालिकेद्यारामा इति, चक्रारबद्धमानुष मिति चक्रारबद्धं- गन्त्र्यादि मानुषं- दासादि, एवं द्विपदं पुनर्भवति द्विविधमिति गाथार्थः // 256 // उक्तं स्थावरादि, चतुष्पदमाह नि०- गावी महिसी उट्ठा अयएलगआसआसतरगा ।घोडग गद्दह हत्थी चउप्पयं होइ दसहा उ॥२५७॥ गौर्महिषी उष्ट्री अजा एडका अश्वा अश्वतराश्च घोटका गर्दभा हस्तिनश्चतुष्पदं भवति दशधा तु, एते गवादयः प्रतीता एव, नवरमश्वा- वाल्हीकादिदेशोत्पन्ना जात्याः, अश्वतरा-वेगसराः अजात्या घोटका इति गाथार्थः॥२५७ // उक्तं चतुष्पदम्, // 303 // कुप्यमाह नि०- नाणाविहोवगरणंणेगविहं कुप्पलक्खणं होइ / एसो अत्थो भणिओ छव्विह चउसट्ठिभेओ उ॥२५८॥