SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 292 // बीजमन्थून यवादिचूर्णान् ज्ञात्वा प्रवचनतो बिभीतकं बिभीतकफलं प्रियालं वा प्रियालफलंच आमं अपरिणतं परिवर्जयेदिति पञ्चचममध्ययन सूत्रार्थः // 24 // पिण्डैषणा, द्वितीयोद्देशकः समुआणंचरे भिक्खू, कुलमुच्चावयं सया।नीयं कुलमइक्कम्म, ऊसढं नाभिधारए॥सूत्रम् 25 // सूत्रम् अदीणो वित्तिमेसिज्जा, न विसीइज्ज पंडिए। अमुच्छिओ भोअणंमि, मायण्णे एसणारए। सूत्रम् 26 // 25-28 भिक्षाटनबहु परघरे अस्थि, विविहं खाइमसाइमं / न तत्थ पंडिओ कुप्पे, इच्छा दिल्ज परो न वा॥ सूत्रम् 27 // विधिः। सयणासणवत्थं वा, भत्तं पाणं वसंजए। अदितस्स न कुप्पिज्जा, पच्चक्खेवि अदीसओ॥ सूत्रम् 28 // विधिमाह-'समुआणं'ति सूत्रम्, समुदानं भावभक्ष्यमाश्रित्य चरेद्भिक्षुः, क्वेत्याह- कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवापेक्षया प्रधानमप्रधानं च, यथापरिपाट्येव चरेत् ‘सदा सर्वकालं नीचं कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थं , उत्सृतं ऋद्धिमत्कुलं नाभिधारयेत् न यायात्, अभिष्वङ्गलोकलाघवादिप्रसङ्गादिति सूत्रार्थः // 25 // किंच-'अदीण' त्ति सूत्रम्, अदीनो द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः वृत्तिं वर्त्तनं एषयेद् गवेषयेत्, न विषीदेद् अलाभे सति विषादं न कुर्यात् पण्डितः साधुः अमूर्च्छितः अगृद्धो भोजने, लाभे सति मात्राज्ञ आहारमात्रां प्रति एषणारतः उद्गमोत्पादनैषणापक्षपातीति सूत्रार्थः // 26 // एवं च भावयेत्-'बहु'ति सूत्रम्, बहु प्रमाणतः प्रभूतं परगृहे असंयतादिगृहेऽस्ति विविधं अनेकप्रकारं खाद्यं स्वाद्यम्, एतच्चाशनाद्युपलक्षणम्, न तत्र पण्डितः कुप्येत् सदपि न ददातीति न रोपं कुर्यात्, किंतु- इच्छया दद्यात् परो न वे ति इच्छा। परस्य, न तत्रान्यत् किश्चिदपि चिन्तयेद्, सामायिकबाधनादिति सूत्रार्थः॥ 27 // एतदेव विशेषेणाह-'सयण'त्ति सूत्रम्, शयनासनवस्त्रं चेत्येकवद्भावः भक्तं पानं वा संयतोऽददतो न कुप्येत् तत्स्वामिनः, प्रत्यक्षेऽपि च दृश्यमाने शयनासनादाविति // 292 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy