SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० // 257 // एषणायाश्च कर्मणाऽष्टप्रकारेण- ज्ञानावरणीयादिना, अतः क्रोधादयः पिण्ड इतिगाथार्थः।। २३६॥प्ररूपितः पिण्डः, साम्प्रतमेषणाऽवसरः, पञ्चचममध्ययन पिण्डैषणा, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यैषणामाह- द्रव्यैषणा तु त्रिविधा भवति, सचित्ताचित्तमिश्रद्रव्याणामेषणा द्रव्यैषणा,# प्रथमोद्देशकः सचित्तानां द्विपदचतुष्पदापदानां यथासंख्यं नरगजद्रुमाणामिति, कार्षापणग्रहणादचित्तद्रव्यैषणा अलङ्कतद्विपदादिगोचरमिश्र-|| भाष्यम् 62 द्रव्यैषणा च द्रष्टव्येति गाथार्थः।। 237 // भावैषणामाह- भावैषणा तु पुनर्द्विविधा, प्रशस्ता अप्रशस्ता च ज्ञातव्या, एतदेवाह नवकोटिः। नियुक्तिः ज्ञानादीना मिति ज्ञानादीनामेषणा प्रशस्ता क्रोधादीनामप्रशस्तैषणेति गाथार्थः ॥२३८॥प्रकृतयोजनामाह-भावस्य ज्ञानादे |234-244 रुपकारित्वाद् अत्र प्रक्रमे द्रव्यैषणयाऽधिकारः, तस्याः पुनद्रव्यैषणायाः अर्थयुक्तिः हेयेतररूपा अर्थयोजना वक्तव्या पिण्डनियुक्तिरिति पिण्डस्य गाथार्थः।। 239 // सा च पृथक्स्थापनतो मया व्याख्यातैवेति नेह व्याख्यायते। अधुना प्रकृताध्ययनावतारप्रपञ्चमाह निक्षेपाः। पिण्डैषणा च सर्वा उद्रमादिभेदभिन्ना संक्षेपेणावतरति नवसु कोटीषु, ताश्चेमा:- न हन्ति न पचति न क्रीणाति स्वयम्, तथा न घातयति न पाचयति न क्रापयत्यन्येन, तथा घ्नन्तं वा पचन्तं वा क्रीणन्तं वा न समनुजानात्यन्यमिति नव / एतदेवाहकारणानुमतिभ्यां नवेति गाथार्थः // २४०॥सा नवधा स्थिता पिण्डैषणा द्विविधा क्रियते- उद्गमकोटी विशोधिकोटी च, तत्र षट्स हननघातनानुमोदनपचनपाचनानुमोदनेषु प्रथमा- उद्गमकोटी अविशोधिकोट्यवतरति, क्रीतत्रितये क्रयणक्रापणानुमतिरूपे / विशोधिस्तु-विशोधिकोटी द्वितीयेति गाथार्थः॥ 241 // एतदेव व्याचिख्यासुराह भाष्यकार:- कोटीकरण मिति कोट्येव कोटीकरणम्, कोटी(करणं) द्विविधं- उद्गमकोटी विशोधिकोटीच, उद्गमकोटी षट्कं-हननादिनिष्पन्नमाधाकर्मादि, विशोधिकोटी // 257 // Oपिण्डनिर्युक्तेः पृथक्स्थापितत्वात् तत्र भद्रबाहुस्वामिनाऽर्थयुक्तिर्व्याख्यातेति नात्राध्ययनार्थाधिकारे तव्याख्यानम्। अन्यथा वाऽस्ति हरिभद्रसूरिकृता पिण्डनियुक्तिवृत्तिरिति तामाश्रित्यापि स्यादिदं वचः /
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy