SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 246 // 'से भिक्खूवा इत्यादि जाव जागरमाणे व'त्ति पूर्ववदेव, से बीएसु वे त्यादि, तद्यथा- बीजेषु वा बीजप्रतिष्ठितेषु वा रूढेषु वा चतुर्थमध्ययनं रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नप्रतिष्ठितेषु वा सचित्तेषु वा सचित्तकोल षड्जीव निकायम्, प्रतिनिश्रितेषु वा, इह बीजं-शाल्यादि तत्प्रतिष्ठितम्, आहारशयनादि गृह्यते, एवं सर्वत्र वेदितव्यम्, रूढानि- स्फुटितबीजानि सूत्रम् 15 जातानि-स्तम्बीभूतानि हरितानि दूर्वादीनि छिन्नानि-परश्वादिभिवृक्षात् पृथक् स्थापितान्यार्द्राणि अपरिणतानि तदङ्गानि / षट्काय यतना। गृह्यन्ते सचित्तानि अण्डकादीनि कोलो- घुणस्तत्प्रतिनिश्रितानि- तदुपरिवर्तीनि दादीनि गृह्यन्ते, एतेषु किमित्याह-न गच्छेन्जा न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्वर्तेत, तत्र गमनं- अन्यतोऽन्यत्र स्थानं- एकत्रैव निषीदनं- उपवेशनं त्वग्वर्तनंस्वपनम्, एतत्स्वयं न कुर्यात, तथाऽन्यमेतेषु न गमयेत् न स्थापयेत् न निषीदयेत् न स्वापयेत्, तथाऽन्यं स्वत एव गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा स्वपन्तं वा न समनुजानीयादित्यादि पूर्ववत्॥ से भिक्रवू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहुंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछणसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिअपडिलेहिअ पमजिअ पमजिअएगंतमवणेज्जा नोणं संघायमावज्जेजा।सूत्रम् 15 // 'से भिक्खू वा इत्यादि यावज्जागरमाणे व'त्ति पूर्ववत्, से कीडं वा इत्यादि, तद्यथा-कीटं वा पतङ्ग वा कुन्थुवा पिपीलिका 0 नैतानि व्याख्यातानि टीकायां दीपिकायां तु व्याख्यातानि / // 246 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy